Ayurveda Special Formulations

मद्यपान p७२९

तत्र मद्यस्वभावः

मद्यस्वभावतःप्राज्ञयथैवान्नं तथा स्मृतम . अयुक्तियुक्तं रोगाय युक्तियुक्तं रसायनं। १। .

प्राणाः प्राणभृतान्नं तदयुक्तया निहन्त्यसून . विषं प्राणहरं तच्च युक्तियुक्तं रसायनम। २। विधिना मात्रया काले हितैर अन्नैर्यथाबलम। प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा। ३।

अथ मद्यपानविधिः

कृतशारीरसंस्कारः शुचिरुत्तमगन्धवान। उद्यामगन्धिभिः स्फीतिर्मृदुभिर्वसनैर्वृतः। ४। विचित्रविविधस्रग्वी रक्ताभरणभूषितः। सानन्दः सावधानश्च पिबेन्मद्यं शनैःशनैः। ५।

अथ मद्यपानस्थानम

उपवनेषु सुरभिसुरंगसुमनःसमूहमनोहरेषु। मंजुगुन्जन्मधुकरेषु कुजत्ककलकण्ठेषु। ६। सुरभिशिशिरमधुरसमीरेषु मन्दिरेषु। सुधाशुभ्रेषु सुधूपधूपतेषु सृपधानेषु। संस्तीर्णविहितशयनासनेषु। ७। उपविष्टोअथ वा तिर्यक भृशं हृष्टः सुरां पिबेत। सौवर्णैः राजतैः पात्रैः पिबेन्मणिमयैरपि। ८। रूप यौवन मत्तर्वल्लभाभिर्विशेषतः। वस्त्राभरणमाल्यैश्चभूषिताभिर्यथर्तुकैः। दीयमानं मृगाक्षिभिः पिबेन्मद्यं मुदान्वितः। ९।

तन्त्रान्तरोक्तमद्यपानमात्रा

शुद्धकायः पिबेन्मद्यं सोपदंशं पलद्वयं। मध्याह्ने द्विगुणं तच्च सुस्निग्धं भक्ष्येदनु। १०। प्रदोषे अष्टपलं तद्वन्मात्रा मद्यरसायने। अनेन विधिना सेव्यं मद्य नित्यमतन्द्रितः। ११।

शुद्धकायः उत्सृष्टमलमूत्रः। पलद्वयं पारिशेष्यात्पूर्वाह्ने बोद्धव्यं। अतन्द्रितैः मात्रया सावधानैः।

अन्येत्वाहुः -

बुद्धयादयो गुणा यावदुल्लसन्ति निरत्ययाः। मात्रेयं विहिता मद्यपाने अन्या रोग जन्मने। १२।

काल इति यस्मिन्काले यादृशं मद्यमुचितं तस्मिन्स्तादृशं पेयम।

मलमूत्र त्याग शुद्ध होकर प्रातःकाल नाश्ते साथ दो पल मद्य का सेवन करें. दोपहर में इससे दोगुनी मद्यपान के बाद स्निग्ध भोजन करें. संध्याकाल में आठ पल मात्रा मद्यपान करें. इस मात्रा का कड़ाई से पालन करें.

अथ कस्मिन्नृतौ कीदृशं मद्यं पेयमित्याह

ग्रीष्मे मद्यं हिमं स्वादु माध्वीकादि सुखप्रदम। शीते प्रशस्यते चोष्णं तीक्ष्णं गौडिकापैष्टिकम। १३।

अथ हितकार्यन्नम

मद्यानुकूलयैर्विविधैः फलैर्वर्णमनोहरैः सुगन्धैर्लवणैर्हृदयैर्भृष्टैर्मांसैः पृथग्विधैः। १४। स्निग्धैरअन्नैश्च भक्ष्यैश्च सह मद्यं पिबेन्नरः। १५।

अन्नैः सिद्धैः ओदनपर्पटकमादिभिः। भक्षैः लड्डूकफेणिकादिभिः।

अभ्यंगत्सादनस्नानवासोधूपानुलेपनैः। स्निग्धोष्णैस्तादृशैरन्नैवातप्रकृतिकः पिबेत। शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः। १६। फलैरन्नैः सह नरः पित्तप्रकृतिकः पिबेत। श्लेष्मिको जाँगलैर्मांसैर्मरिचैर्मदिरां पिबेत। १७। प्राक पिबेच्छलैष्मिको मद्यं भक्तस्योपरि पैत्तिकः। वातिकस्तु पिबैन्मद्यं समदोषो यथेक्षते। १८। ---वातिकस्तु पिबैन्मद्यं प्रायो गौडिकपैष्टिकम। कफपित्तात्मको यस्तु माध्वकि माधवं पिबेत। १९। विधिवसुमतामेष कथितश्चरकादिभिः। यथोप पैत्तिकं वापि पिबैन्मद्यं हि मात्रया। २०।

अथ मद्यगुणाः

रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम। प्रधानस्यौजसश्चैव हृदयँ स्थानमुच्यते। २१। मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान। दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम। २२। लघूष्णतीक्ष्णसूक्ष्माम्लव्यवायाशुकरम तथा। रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम। २३। गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा। प्रसन्नं पिच्छिलं सूक्ष्मोजो दशगुणं स्मृतम। २४। गौरवं लाघवाच्छैत्यमौष्ण्यादम्लस्वभावतः। माधुर्यं मार्दवं तैक्ष्णयात्प्रसादंचाशुभावनात। २५। रौक्ष्यात्स्नेहं व्यवायित्वात्स्थिरत्वं सूक्ष्मतामपि। विकाशिभावात्पैच्छिल्यं वैशद्यात्सांद्रतां तथा। २६। सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान। सत्त्वं तदाश्रयं चाशु संक्षोभ्य कुरुते मदम। हृदि मद्यगुणाविष्टे हषस्तशोम रतिः सुखम। २७। विकाराश्च यथासत्त्वं चित्रा राजसतामसाः। जायन्ते मोहनिद्रान्ता इत्येतन्मदलक्षणम। २८। हर्षमोजो बलं पुष्टिमारोग्यं पौरुषं तथा। युक्त्या पीतं करोत्याशु मद्यं मदसुखप्रदम। २९। रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम। प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम। ३०। स्वापनं नष्टनिद्राणां मूकानां वाग्विशोधनम। नाशनं चातिनिद्राणां विबंधानां विबंधनुत। ३१। वधवन्धपरिक्लेश दुःखानां चाप्यबोधकम। अपि प्रवयसां मद्यमुत्सर्गामोदकारकम। ३२। बहुदुःखक्षतस्यास्य शोकैरुपहतस्य च। विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम। ३३।

मदस्त्रिलक्षणो भवति। एको मदोअधिकसत्त्वगुणस्य पुंसो भवति। द्वितीयोअधिकरजोगुणस्य। तृतीयोअधिकतमोगुणस्य।

प्रधानाधममध्यानां रुक्माणां व्यक्तिदायकः . यथाग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम। ३४।

अथ सात्त्विकमदलक्षणम

बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्न निद्रा रति वर्द्धनश्च। संपाठगीतस्वरवर्द्धनश्च प्रोक्तोअतिरम्यः प्रथमो मदो हि। ३५।

प्रीतिः परेण मैत्री। सुखः सुखयतीति सुखः सुखकर इत्यर्थः। पानादित्यादि पानादिषु अनुषंगवर्द्धनः अतिरम्यः मनोविका रित्वेअपि न दुःखकरः। प्रथमगुणविकारित्वात प्रथमः। एवं द्वितीयं तृतीयं च।

अथ राजसमदलक्षणम

अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरप्रशान्तः। आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन। ३६।

अव्यक्तेत्यत्र ईषदर्थे नं। विचेष्टः विरुद्धचेष्टः। उन्मत्तस्य लीलाकृतिभ्यां सहितः।

अथ तामसमदलक्षणम

गच्छेदगम्यां न गुरुश्च मन्येत्खादेदभक्ष्याणि च नष्टसंज्ञः। त्रुयाच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोअस्वतन्त्रः। ३७।

मन्येदिति परस्मैपदमार्षत्वात। अस्वतन्त्रः मदपरवशः।

यद्यपि मदस्त्रिविधोअस्ति तथापि सुश्रुतेनाअतितामसनामा चतुर्थोअन्यो मतस्तल्लक्षणमाह

चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः। कार्याकार्या विभागज्ञो मृतादपि परो मृतः। ३८।

मूढो मोहयुक्तः।

को मदं तादृशं गच्छेदुन्मादमिव चापरम। बहुदोषमिवामूढः कान्तारं स्ववशः कृती। ३९।

अमूढ़ विचारबहुल।

अथ केषां मदाधिक्यम केषां च मदल्पत्वं भवतीत्याह

नातिमाद्यन्ति बलिनः कृताहारा मदाशनाः। स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः। ४०। मेदः कफाधिका मंदवातपित्ता दृढाग्नयः। विपर्ययेअतिमाद्यन्ति विष्टब्धाः कुपिताश्च ये। मद्येन चाम्लरूक्षेण साजीर्णे बहुनापि च।




विशिष्ट योगः

अथ सारस्वतचूर्णम प् ७४९

कुष्ठश्वगंधे लवणाजमोदे द्वे जीरके त्रीणि कटुनि पाठा। मांगल्यपुष्पी च समान्यमुनि सर्वैः समानाच्च वचां विचूर्णय। ४९। ब्राह्मीरसेनाखिलमेव भाव्यं वारत्रयं शुष्कमिदं हि चूर्णम। अक्षप्रमाणं मधुना घृतेन लिह्यन्नरः सप्त दिनानि चूर्णम। ५०।

मांगल्यपुष्पी शंखपुष्पी शंखाहुलीति लोके।

सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं पुरा। हिताय सर्वलोकानां दुर्मेधानां विचेतसाम। ५१। एतस्याभ्यासतः पुंसां बुद्धिर्मेधा धृतिः स्मृतिः। संपत्तिः कविताशक्तिः प्रवर्द्धेच्चोत्तरोत्तरम। ५२।

अथ चक्रदत्तप्रोक्तमहामाषादितैलम प् ७८५

माषस्यार्द्धाढ़कं देयं तुलार्द्धं दशमूलतः। पलानिच्छागमांसस्यत्रिंशत्द्रोणे अम्भसः पचेत .262 .चतुर्भागावशेषं तं कषायमवतारयेत। प्रस्थे द्वे तिलतैलस्य पयो दद्याच्चतुर्गुणम। २६३। जीवनीयानि मंजिष्ठा चव्यं चित्रक कट्फलम। सव्योषं पिप्पलीमूलं रास्नामलकगोक्षुरम। २६४। आत्मगुप्ता तथैरण्डः शताह्वा लवणत्रयम। देवदार्वमृताकुष्ठमश्वगन्धा वचा शटी। २६५। एतैरक्षमितैः कल्कैः पाचयेन्मृदुनाग्निना। पक्षाघातार्दिते पुंसि हनुस्तम्भार्दिते तथा। २६६। कर्णशूले शिरःशूले तिमिरे च त्रिदोषजे। पाणिपादशिरोग्रीवाश्रवणे मन्द एव च। २६७। कलायखञ्जे पंगौ च गृध्रस्यामपबाहुके। पाने वस्तौ तथाभ्यङ्गे नस्ये कर्णादिपूरणे। २६८। तैलमेतत्प्रशंसन्ति सर्ववातविकारनुत। महामाषादिनामेदं भाषितं मुनिभिः पुरा। २६९।

अथ रसोनकल्कः

युक्तः कल्को रसोनस्य तिलतैलेन सिंधुना। वातरोगान्हरेेत्सर्वान्ज्वरांश्च विषमानपि। ३३५।


क्षीरेण तैलेन घृतेन वाअपि मांसेन सार्द्धं लशुनानि खादेत। शाल्योदनेनापि च षष्टिकेनपलार्द्धवृद्धया दिवसानि सप्त .336 .वातोत्थरोगान्विषमज्वरांश्च शूलांसगुल्मान्दहनस्य मान्द्यम। प्लीहानमुग्रं भुजपार्श्वशूलं शिरोव्यथां कृन्तति शुक्रदोषान। ३३७।

अथ कैशोरगुग्गुलुः p ८३०

वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलो प्रस्थम। प्रक्षिप्य तोयराशौ त्रिफलाम्च यथोक्तपरिमाणाम। १९६। द्वात्रिंशच्चिन्नरुहापलानि देयानि यत्नेन। विपचेत्तदप्रमत्तो दर्व्यां सङ्घट्टयेनमुहुर्यावत। १९७। अर्द्धक्षयितं तोयं जातं ज्वलनस्य संपर्कात। अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयदयःपात्रे। १९८। सान्द्रीभूते तस्मिन्नावतार्य हिमोपलस्पर्शे। त्रिफलाचूर्णार्द्धपलं त्रिकटोश्चूर्णं षडक्ष परिमाणम। १९९। कृमिरिपुचूर्णार्द्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः। पलमेकंतु गुडुच्या दत्त्वा सञ्चूर्न्य यत्नेन। २००। उपयुज्य चानुपानं यूषं क्षीरं सुगन्धि सलिलंच। इच्छाहारविहारी भेषजमुपयुज्य सर्वकालमिदम। २०१। तनुरोधि वातशोणितमेकद्वित्र्युल्वणं चिरोत्थमपि। भग्नश्रुतपरिशुष्कं स्फुटितं दीर्णमाजानु यच्चापि। २०२। व्रणकासकुष्ठगुल्मश्वयथुं गर पाण्डुमेहांश्च। मन्दाग्निंच विबन्धं प्रमेहपिड़कांश्च नाशयत्याशु। २०३। सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान। अभिभूय जरादोषं करोति कैशोरकं रूपम। २०४। प्रत्येकं त्रिफलाप्रस्थौ जलंचाढ़कम। गुड़वदगुग्गुलोः पाकः सन्धेयस्तु विशेषतः। २०५।

अथ योगसारामृतः p ८३४

शतावरी नागबला वृद्धदारकमुच्चटा। पुनर्नवामृता कृष्णा वाजिगंधा त्रिकंटकम। २३९। पृथग्दशपलान्येषां श्लक्ष्णचूर्णानि कारयेत। तदर्द्धशर्करायुक्तं चूर्णं संमर्दयेद बुधः। २४०। स्थापयेत्सुदृढे भाण्डे मध्वार्द्धाढ़कसंयुतम। घृतप्रस्ठेन वा आलोड्य त्रिसुगन्धपलेन च। २४१। तं खादेदिष्ट भक्ष्यान्नो यथावह्निबलं नरः। वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तस्रसम्भवम। २४२। वातपित्तकफोत्थानश्च रोगानन्यांश्च तत्कृतान। हत्वा करोति पुरुषं हत्वा सर्वामयान्द्रुतम। २४३। वलीपलितनिर्मुक्तं मेधास्मृतिविभूषितम। करोति पुरुषं धन्यं पञ्चवर्षशतायुषम। योगसारामृतो नाम लक्ष्मीकीर्तिविवर्द्धनः। २४४।