Ayurveda Treatments


In the last half of the scripture Bhavaprakash, detailed treatment formulations are provided for almost all ailments of human body. We provide here some key items of cure which are very common .

All physical ailments begin with stomach disorders caused by undesirable foods reaching the body. So if we keep our foods and the stomach in good health, we would probably lead a healthy life.

अथोदराधिकारः

तत्रोदरनिदानम

रोगाः सर्वेपि मन्देअग्नौ सुतरामुदराणि च। अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसंचयात। १।

अग्नौ मन्दे सर्वे रोगाः जायन्ते। किन्तु सुतराम अतिशयेन उदराणि जायन्ते। अपरानपि हेतूनाह, अजीर्णात मलिनै -- अत्यन्तदोषजनकैः। मलसंचयात मला --- पुरीषस्य च अतिवृद्धेः। अत्र उदरशब्देन उदरस्थो रोग उच्यते। यत आह --

अर्थतो धर्मतः साम्यात्तत्समीपतयापि च। तत्साहचर्याच्छब्दानां वृत्तिरुक्ता चतुर्विधा। २।

अथोदररोगसाम्प्राप्तिः .

रुद्धा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः। प्राणाग्न्यपानांसंदूष्य जनयन्त्युदरं नृणाम। ३।

अथोदररोगसामान्यरूपम

आध्मानं गमनेअशक्तिर्दौर्बल्यं दुर्बलाअग्निता। शोथः सदनमंगानां संगो वातपुरीषयोः। दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि। ४।

अथोदररोगनिदानपूर्वकसंख्या

पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः। -- वन्त्युदारान्यष्टौ तेषां लिंगं पृथक् -----

अथ वातोदरलक्षणम

तत्र वातोदरे शोथः पाणिपन्नाभिकुक्षिषु। कुक्षिपार्श्वोदरकटीपृष्ठररुक्पर्वभेदनं। ६। शुष्ककासोअगमर्दश्च गुरुता मलसंग्रहः । श्यावारुणत्वगादित्वमकस्मादध्रासवृद्धिमत। ७। सतोदभेदमुदरं तनुकृष्णशिराततम। आध्मातदृतिवच्छब्दमाहतं प्रकरोति च। वायुश्चात्र सरुक्छब्दो विचरेत्सर्वतोगतिः। ८।

कुक्षिपार्श्वोदरेत्यत्र कुक्षिशब्द उदरस्य वामदक्षिणभागद्ववाची। सर्वतोगतिः सकलकोष्ठेसंचरन।

अथ पित्तोदरलक्षणम

पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट कटुकास्यता। भ्रमो अतिसारः पीतत्वं त्वगादावुदरं हरित। ९। पीतताम्रशिरानद्धं सस्वेदं सोष्म दह्यते। धूमायते मृदुस्पर्शं क्षिप्रपाकं प्रदूयते। १०।

हरित शाकवर्णात्मकं। सोष्म अन्तस्तापयुक्तम। दह्यते बहिर्दाहयुक्तं भवति। धूमायते धूममिव उद्वमति। क्षिप्रपाकं क्षिप्रपाकाज्जलोदरं जायते। प्रदूयते व्यथते।

अथ कफ़ोदरलक्षणम

श्लेष्मोदरे अगसदनं शवथुरगौरवं तथा। तन्द्रोंत्क्लेशोअरुचिः स्वापः कासः शौक्ल्यं त्वगादिषु। ११। उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत। चिराभिवृद्धिं कठिनं शीतस्पर्शं गुरु स्थिरम। १२।

गौरवमंगानाम। तन्द्रा निद्राबाहुल्यम। उत्क्लेशो हल्लासः। स्वापः स्पर्शाज्ञता। शुक्लराजीततं शुक्लशिराव्याप्तम।

अथ सन्निपातोदरलक्षणम

स्त्रियोंअन्नपानं नखलोममूत्रविडार्तवैर्युक्तमसाधुवृताः। यस्मै प्रयच्छन्त्यरयोगरांश्च दुष्टाम्बुदूषीविषसेवनाच्च। १३। तस्याशु रक्तं कुपिताश्च दोषाः कुर्युः सघोरं जठरं त्रिलिंगम। तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च। १४। स चातुरो मूर्च्छति हि प्रसक्तं पांडुः कृशः शुष्यति तृष्णया च। दूष्योदरं कीर्तितमेतदेव प्लीहोदरं कीर्तयतो निबोध। १५।

स्त्रिय इत्यविवेकिसन्निहितजनोपलक्षणम। ताश्च स्वसौभाग्यमिच्छन्त्यः। विट मार्जारादीनाम। आर्तवं रजः। अरयः शत्रवः। गरान्संयोगजानि विषाणि। दुष्टमम्बु सविषमत्स्यतृणपर्णादियुक्तम। दूषीविषं विषमेव अग्न्याद्युपघातेंन स्वल्पप्रभावम। यत उक्तं ‘जीर्णे विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा। स्वभावतो वा गुणविप्रयुक्तं विषं हि दूषिविषतामुपैति।’ गुणविप्रयुक्तं गुणवियुक्तं तदुदरं शीतादिषु कुप्यति। तत्र दूषीविषस्य प्रकोपात। मूर्च्छति विषयोगात। प्रसक्तं निरन्तरम। एतदेव सन्निपातोदरं तन्त्रान्तरे दूष्योदरं कीर्त्तितम। अथ वा परस्परं दूषयन्ति दोषा एव दूष्याः तैः कृतम उदरं दूष्योदरम।

अथ प्लीहोदरलक्षणम

वर्द्धते प्लीहवृद्धया यद्विद्यातपलीहोदरं हि तत। तद्वामे वर्द्धते पार्श्वे निमित्तं तत्र तस्य यत। १६। प्रवृद्धे प्लीह्णि लिङ्गानि यान्युक्तानि भिषग्वरैः प्लीहोदरेअपि दृश्यन्ते तानि सर्वाणि देहिनां। प्लीहोदरस्यैव मेदो यकृद्दाल्युदरं तथा। १७।

तस्य पुनरपि विशेषकमित्याह -

साव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव। १८।

यकृद्दालयति दोषैर्भिनत्तीति यकृद्दाल्युदरम। तदेव उदरमेव।

अथ बद्धगुदोदरलक्षणम

यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा पिहितं यथावत। संचीयते तस्य मलः सदोषः शनैः शनैः संकरवच्च नाड्याम। १९। निरुध्यते यस्य गुदे पुरीषं निरति कृच्छ्रादपि चाल्पमल्पम। हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति। २०।

उपलेपिभिः शाकशालुकादिभिः। बालाश्मिभिः वालुकाभिः शर्करैर्वा यथावत्तस्य सम्भवति। मलः पुरीषं संकरवत्संमार्जनीक्षिप्ततृणधूल्यादिवत। नाड्यां अंत्रनाड्याम। हृन्नाभिमध्ये हृन्नाभ्योर्मध्ये।

अथ क्षतोदरलक्षणम

शल्यं तथान्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा। तस्मात्स्रुतोअन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वैगुदतस्तु भूयः। २१। नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम। एतत्परिस्राव्युदरं प्रदिष्टं क्षतोदरं कीर्तयतो निबोध। २२।

शल्यं कंटकशर्करादि। अन्नोपहितं भुक्तं यदन्त्रं भिन्नति। तथा अन्यथा आगतं भोजनं विना आगतम। शरादितरथापि यदन्त्रं भिनत्ति तत उपलक्षणम। जृम्भणमत्यशनं वा यदन्त्रं भिन्नत्ति। यत उक्तं चरके --

शर्करातृणकाष्ठास्थिकंटकैरन्नसंयुतैः। भिद्येतान्त्रं यदा भुक्तं जृंभयात्शनेन चेत। २३।

तस्माद्भिन्नादन्त्रात। गुदतस्तु भूयः अंंत्रात संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः। दाल्यति विदार्यत एव। पदसिद्धिरार्षत्वात। एतत क्षतोदरं तन्त्रान्तरे परिस्राव्युदरम प्रदिष्टं कथितम।

अथोदकोदरलक्षणम

यः स्नेहपीतोअप्यनुवासितो वा वांतो विरक्तोअप्यथ वा निरूढः। पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि। २४। स्नेहोपलिप्तेष्वथ वापि तेषूदकोदरं पूर्ववदभ्युपैति। स्निग्धं महत्तत्परिवृत्तनाभि समन्ततः पूर्णमिवाम्बुना च ,यथा दृतिः क्षुभ्यति कम्पते च शब्दायते वाप्युदकोदरं तत। २५।

स्नेहपीतः पीत इत्यत्राध्यवसितादित्वात कर्तरिक्तः। स्नेहपीत इति पुनरार्षप्रयोगः। तेन स्नेहं पीतवानित्यर्थः। अनुवासितो वा गृहीतानुवासनवस्तिः। वान्तः अत्रापि पूर्ववत कर्तरिक्तः तेन वान्तवानित्यर्थः। एवं विरिक्तः विरिक्तवान। तथा निरूढः गृहीतनिरूढवस्तिः । स चेदाशु शीतलं जलं पिबेत। तस्य तद्वहानि जलवहानि श्रोतांसि दूष्यन्ति जलवहेषु स्रोतःसु दुष्टेषु सत्सु। अन्नरसे उपस्नेहन्यायेन बहिर्निःसृतोदकोदरमायाति तदुदरं परिवृत्तनाभि गंभीरनाभि समन्ततः जलमपयाति सर्वतः यथा दृतिः चर्ममयं जलाहरणपात्रं क्षुभ्यति। अंतर्जलदोलनेन संचलति। कम्पते बहिः शब्दायते कम्पमानं सत शब्दं करोति।

अथोदररोगसाध्यासाध्यता

जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम। बालिनस्तदजाताम्बू यत्नसाध्यं नवोत्थितम। २६।

बलिनः अजाताम्बु नवोत्थितंच यत्नसाध्यामित्यन्वयः।

पक्षाद्बद्धगुदं तूर्ध्दं सर्वं जातोदकं तथा। प्रायो भवत्यभावाय छिद्रान्त्रं चोदरं नृणाम। २७।

शरादिना छिद्रमंत्रं यस्य तदुदरम। अभावाय भवति।

पयः पूर्णा दृतिरिव क्षोभं शब्दकरं मृदु। अप्रव्यक्तशिराशून्यं नीरार्तमुदरं महत। २८। आलस्यामास्यवैरस्यं मूत्रं बहुशकृट द्रुतम। जातोदकस्य लिंगं स्यान्मंदाग्निः पाण्डुतापि च। २९। शूनाक्षं कुटिलोपस्थमुपक्लित्रतनुत्वचम। बलशोणितमांसाग्निपरिक्षीणंच वर्जयेत। ३०।

कुटिलोपस्थम वक्रमेहनम। उपक्लित्रतनुत्वचम उपरि आर्द्रा तन्वी त्वक यस्य तं उदरिणम विवर्जयेत।

पार्श्वभ्यंगान्नविद्वेषशोफातीसारपीडितम। विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत। ३१।

विरिक्तमपि पूर्यमाणं पूर्यमाणोदरम उदरिणं विवर्जयेत।

अथोदररोगचिकित्सा

एरंडतैलं दशमूलमिश्रं गोमूत्रयुक्तं त्रिफलारसो वा। निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च। ३२।

अथ कुष्ठादिचूर्णम

कुष्ठं दन्ती यवक्षारो व्योषं त्रिलवणं वचा। अजाजी दीप्यकं हिंगु स्वर्जिका चव्यचित्रकम। शुण्ठी चोष्णाम्भसा पीता वातोदररुजापहा। ३३।

अथ लशुनतैलम

लशुनस्य तुलामेकां जलद्रोणे विपाचयेत। त्रिकटु त्रिफला दन्ती हिंगु सैन्धवचित्रकम। ३४। देवदारु वचा कुष्ठं मधु शिग्रुः पुनर्नवा। सौवर्चलं विडंगानि दीप्यकों गजपिप्पली। ३५। एतेषां पलिकान्भागांस्त्रिवृतः षटपलानि च। पिष्ट्वा कषायेणानेन तैलं मृद्वग्निना पचेत। ३६। तत्पिबेत्प्रातरुत्थाय यथाग्निबलमात्रया। निहन्ति सकलातरोगानुदराणि विशेषतः। ३७। मूत्रकृच्छ्रमुदावर्त्तमन्त्रवृद्धिं गुदाक्रिमीन। पार्श्वकुक्षिभवं शूलमामशूलमरोचकम। ३८। यकृदष्ठीलिकानाहानप्लीहानं चांगवेदनाम। मासमात्रेण नश्यन्ति अशीतिर्वातजा गदाः। ३९।

अथ पित्तोदरकफ़ोदरचिकित्सा

पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत। पयसा च त्रिवृत्कल्कै रवूकस्य शृतेन च। ४०। पिप्पल्यादिगणेनाज्यं पाचितं पाययेद्भिषक। नरं पथ्यभुजं नित्यं कफ़ोदरनिवृत्तये। ४१। नागरत्रिफलाकल्कैर्दध्यम्बु परिपेषितैः। पाचितं तैलमाज्यं वा पिबेत्सर्वोदरेषु च। ४२। शालिषष्टिकगोधूमयवनीवारभोजनम। निरूहो रेचनं श्रेष्ठं सर्वेषु जठरेषु च। ४३। आनूपमोदकं मांसं शाकं पिष्टकृतं तिलाः। व्यायामाध्वादिवास्वप्नस्नेहपानानि वर्जयेत। ४४। तथोग्रलवणोष्णानि विदाहीनि गुरुणि च। नाद्यादन्नानि जठरे तोयपानंच वर्जयेत। ४५। उदराणां मलाद्यत्वाद्बहुशः शोधनं हितम। क्षीरमेरण्डजं तैलं पिबेन्मूत्रेण वा शकृत। ४६।

वातोदरी पिबेत्तक्रं पिप्पलिलवणान्वितम। शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत। ४७। यवानीहपुषाजाजीव्योषयुक्तं कफ़ोदरी। सन्निपातोदरी युक्तं त्रिकटुक्षारसैन्धवैः। ४८।

अथ नारायणचूर्णम

यवानी हपुषा धान्यं त्रिफला चोपकुंचिका। कारवीपिप्पलीमूलमजगंधा शटी वचा। ४९।

उपकुन्चिका कारवी च बृहज्जीरकः मंगरैला इति लोके।

शताह्वा जीरकं व्योषं स्वर्णक्षीरी च चित्रकम। द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम। ५०। विदङ्गंच समान्शानि दन्त्या भागत्रयं भवेत्। त्रिवृद्विशाला द्विगुणा शांतला स्याच्चतुरगुणा। ५१।

विशाला इंद्रवारुणी। शांतला सेहुण्ड इति प्रसिद्धः।

एष नारायणो नाम्ना चूर्णों रोगगणापहः। एनं प्राप्यं निवर्तन्ते रोगा विष्णुमिवासुराः। ५२। तक्रेणोदरिभिः पेयों गुल्मिभिर्बदराम्बुना। आनद्धवाते सुरया वातरोगे प्रसन्नया। ५३। दधिमण्डेन बिडभेदे दाड़िमाम्बुभिरर्शसि। परिकीर्तिषु वृक्षाम्लैरुणाम्बुभिरजीर्णके। ५४।

परिकर्तिः गुदे परिकर्तनवत्पीड़ा।

भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे। हृद्रोगे ग्रहणीरोगे कुब्जे मन्देअनले ज्वरे। ५५। दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे। यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम। ५६।

अथ नारायणघृतम

स्नुकक्षीरदंतीत्रिफलाविडंगासिंहीत्रिवृच्चित्रककर्षकर्षम। घृतं विपक्वं कुड़वप्रमाणं तोयन तस्याक्षमथार्द्धकर्षम। ५७। पीत्वोष्णमम्भोअनुपिबेद्विरेके पेयां रसं वा प्रपिबेद्विधिज्ञः। नाराचमेतज्जठरामयानां युक्त्योपयुक्तं प्रवदन्ति सन्तः। ५८।

अथ वज्रकल्कः

वज्रायाः कर्षमात्रायाः कल्कं दध्यादिवेष्टितं। निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये। ५९।

वज्राण्डीति वनसूरणेति लोके।

अथ पुनर्नवादिक्वाथ

पुनर्नवा दारुनिशा सतिक्ता पटोलपथ्यापिचुमन्दमुस्ताः। सनागराच्छिन्नरुहेति सर्वैः कृतः कषायो विधिना विधिज्ञैः। ६०। गोमूत्रयुग्गुग्गुलुना च युक्तः पीतः प्रभाते नियतः नराणाम। सर्वांगशोथोदरपाण्डुशूलश्वासान्वितं पांडुगुदं निहन्ति। ६१।

पुनर्नवादिः क्वाथः .


अथ कक्षागन्धमालयोर्लक्षणम

बाहुकक्षांसपार्श्वेषु कृष्णस्फोटां सवेदनाम। पित्तप्रकोपसम्भूतां कक्षां तामिति निर्दिशेत। ६१। एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम। त्वग्जातां पित्तकोपेन गन्धमालां प्रचक्षते। ६२।

तादृशीं बाह्वादिषु कृष्णां सवेदनांच।

अथ कक्षागंधमालयोश्चिकित्सा

कक्षांच गन्धमालाश्च चिकित्सेंच चिकित्सकः। पैत्तिकस्य विसर्पस्य क्रियया पूर्वमुक्तया।

अथाग्निरोहिणीलक्षणम

कक्षाभागेषु विस्फोटा जायन्ते मांसदारूणाः। अंतर्दाहज्वरकरा दीप्तपावकसन्निभाः। ६४। सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम। तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकीम। ६५।

सप्ताहादिति वातपित्तकफापेक्षया बोद्धव्यम। घ्नन्तीत्यनुपक्रान्ता उपक्रान्तास्तु साध्या एव। चरकेण अग्निरोहिण्य चिकित्साया उक्तत्वात।

अथाग्निरोहिणीचिकित्सा

पित्तवीसर्पविधिना साधयेदग्निरोहिणीम। रोहिण्यां लंघनं कुर्याद्रक्तमोक्षणरूक्षणम। शरीरस्य च संशुद्धि तांतु वृद्धां परित्यजेत।

अथ विदारिकालक्षणं निदानं च

विदारीकंदवडवत्तां कक्षावंक्षणसन्धिषु। रक्तां विदारिकां विद्यात्सर्वजां सर्वलक्षणाम। ६७।

अत्र पिडिकामिति विशेष्यपदमध्याहारणीयम।

अथ विदारिकाचिकित्सा

विदारिकायां प्रथमं जलौका योजनं हितम। पातनंच विपकायां ततो व्रणविधिः स्मृतः। ६८।

अथ चिप्यलक्षणम

नखमांसमधिष्ठाय वातः पित्तंच देहिनाम। करोति दाहपाकौ च तं व्याधिं चिप्यमादिशेत। ६९।

चिप्यं बेडवा इति लोके।

अथ कुनखनिदानलक्षणम

अभिवातात्प्रदुष्टों यो नखो रुक्षः सितः खरः। भवेत्तं कुनखं विद्यात्कुलीरं वाअभिधानतः। ७०।

अभिधानतः नामतः।

अथ चिप्यकुनखचिकित्सा

चिप्यं रुधिरमोक्षेण शोधनेनाप्युपाचरेत। गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा। ७१। शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावयेत्ततः। व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः। ७२। स्वरसेन हरिद्रायाः पात्रे कृत्वायसेअभयाम। घृष्ट्वा ताज्जें कल्केन लिम्पेच्चिप्यं पुनः पुनः। ७३। काश्मर्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः। अंगुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति। ७४। श्लेष्मविद्रधिकल्केन कुनखं समुपाचरेत। नखकोटिप्रविष्टेन टंकणेन न शाम्यति। कुनखश्वेत्तदा शैलः सलिले प्लवतेअपि च। ७५।

अथ परिवर्तिकानिदानलक्षणम

मर्दनात्प्रीड़नाद्वापि तथैवाप्यभिघाततः। मेढ्रचर्म यदा वायुर्भजते सवतश्चरन। ७६। तदा वातोपसृष्टन्तु तच्चर्म परिवर्तते। सवेदनं सदाहं च पाकंच व्रजति क्वचित। ७७। मणेरधस्तात्कोषस्तु ग्रन्थिरूपेण लम्बते। मारुतागन्तुसंभूतां विद्यात्तां परिवर्तिकाम। सकण्डूः कठिना चापि सैव श्लेष्मसमन्विता। ७८।

अस्यां वातजायामपि पित्तानुबन्धो बोद्धव्यो दाहपाकभावात। कोषः चर्मकोषः।

अथ परिवर्तिकाचिकित्सा

परिवर्ति घृताभ्यक्तां सुस्विन्नामुपनाहयेत। त्रिरात्रं पंचरात्रंक वातघ्नैः शाल्वलादिभिः। ७९। ततोअभ्यज्य शनैश्चर्म पातायेत्पीडयेन्मणिम। प्रविष्टे चर्मणि मणौ स्वेदयेदुपनाहनैः। दद्याद्वातहारान्वस्तीनस्निग्धान्यन्नानि भोजयेत। ८०।

अथावपाटिकानिदानलक्षणम

अल्पीयःखां यदा हर्षाद्बलाद्गच्छेतस्त्रिय नरः। हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात। ८१। मर्दनात्प्रीड़नाद्वापि शुक्रवेगाभिघाततः। यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम। ८२। वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता। पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता। श्लेष्मणा कठिना स्निग्धा कण्डूमत्स्वल्पवेदना। ८३।

अल्पीयः अल्पतरं खं योनिच्छिद्रं यस्याः ताम। अवपाट्यते विदीर्यते।

अथावपाटिकाचिकित्सा

स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाटिकाम। ८४।

अथ निरुद्धप्रकशलक्षणम

वातोपसृष्टे मेढ्रे तु चर्म संश्रयते मणिम। मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च। ८५। निरुद्धप्रकाशे तस्मिन्मंद धारमवेदनम। मूत्रं प्रवर्तते जन्तोर्मणिर्विव्रियते न च। ८६। निरुद्धप्रकाशं विद्यात्सरुजं वातसम्भवम। ८७।

निरुद्धप्रकाशमित्यस्य स्थाने निरुद्धप्रकाशपदमार्षत्वात।

अथ निरुद्धप्रकशचिकित्सा

निरुद्धप्रकशे नाड़ीं लौहीमुभयतोमुखीम। दारवीं वा जतुकृतां घृताक्तां सम्प्रवेशयेत। ८८। परिषिंचे द्वसामज्जाम शिशुमारवराहयोः। चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम। ८९। त्रयहात्स्थूलतरां सम्यंग नाडीं मार्गे प्रवेशयेत। स्रोतो विवर्द्धयेदेवं स्निग्धमन्नंच भोजयेत। भित्त्वा वा सेवनीं मुंक्रा सद्यः क्षतवदाचरेत। ९०।

अथ सन्निरुद्धगुदनिदानलक्षणम

वेगसंधारणाद्वायुर्विहितो गुदसंश्रितः। निरुणद्धि महास्रोतः सूक्ष्मद्वारं करोति च। ९१। मार्गस्य सौक्ष्म्यात्कृच्छ्रेण पुरीषं तस्य गच्छति। सन्निरुद्धगुदं व्याधिमेतं विद्यात्सुदुस्तरम। ९२।

अथ सन्निरुद्धगुदचिकित्सा

सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः .तथा निरुद्धप्रकशक्रियापि कथिताअथवा

अथ वृषणकच्छूनिदानलक्षणम

स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः प्रक्लिद्यते यदास्वेदातकंडूं जनयते तदा । ९४। ततः कण्डूयनात्क्षिप्रं स्फोटःस्रावश्च जायते प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम । ९५।

उत्सादनम उद्वर्तनं मलः मैलि इति लोके प्रक्लिद्यते आर्दो भवति .

अथ वृषणकच्छूचिकित्सा

सर्जाह्मकुष्ठसैंधवसितसिद्धार्थैः प्रकल्पितो योगः। उद्वर्तनेन नियतं शमयति वृषणस्य कण्डूतिम। ९६।.भिषग्वृषणकच्छूं तु चिकित्सेत्पामरोगवत । अहिपूतननिर्दिष्टक्रिययापि च तां हरेत । ९७।

अथाहिपूतननिदानलक्षणम

शकृन्मूत्रसमायुक्तेअधौतेअपाने शिशोर्भवेत । स्विन्ने वाअस्नाप्यमानस्य कण्डू रक्तकफोद्भवा। ९८। कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते। एकीभूतं वृणैर्घोरं तं विद्यादहिपूतनम। ९९।

अथाहिपूतनचिकित्सा

तत्र संशोधनैः पूर्वं धात्रीस्तन्यं विशोधयेत। त्रिफलाखदिरक्वाथैरव्रणानां क्षालनं हितम। शंखसौवीरयष्ट्याह्वैर्लेपः कार्योअहिपूतने। १००।

अथ गुदभ्रंशनिदानलक्षणम

प्रवाहिकातिसाराभ्यां निर्गच्छति गुदं बहिः। रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत। १०१।

अथ गुदभ्रंशचिकित्सा

गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत। प्रविष्टं रोधयेद्यत्नाद्गव्येनाच्छिद्रचर्मणा। १०२।

पद्मिन्याः कोमलं पत्रं यः खादेच्छर्करान्वितम। एतन्निश्चित्य निर्दिष्टं न तस्य गुदानिर्गमः। १०३। मूषकाणां वसाभिर्वा गुदभ्रंशे प्रलेपनम। सुस्विन्नं मूषिकामांसेनाथवा स्वेदयेद्गुदम। १०४। वृक्षाम्लानलचांगरीबिल्वपाठायवाग्रजम। तक्रेण शीलयेत्पायुभ्रंशार्तोअनलदीपनम। १०५।

अथ मूषकतैलम

मूषका दशमूलानि गृह्णीयादुभयं समम। तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम। १०६। अभ्यंगात्तस्य तैलस्य गुदभ्रंशो विनश्यति। विनश्यति तथानेन गुदशूलं भगन्दरम। १०७।

अथ शूकरदंष्ट्रकलक्षणम

सदाहो रक्तपर्यन्तस्त्वक्पाकी तीव्रनेदनः। कण्डूमांज्वरकारी च स स्याच्छूकरदंष्ट्रकः। १०८।

सः गुदभ्रंशः।

अथ शूकरदंष्ट्रकचिकित्सा

भृंगराजकमूलस्य रजन्या सहितस्य च। चूर्णंतु सहस्रा लेपाद्वाराहद्विजनाशनम। १०९।

राजीवमूल कल्कः पीतो गव्येन सर्षिपा प्रातः। शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतं ज्वरं घोरम। ११०। रजनी मार्कवं मूलं पिष्टं शीतेन वारिणा। तल्लेपाद्धान्ति वीसर्पवाराहदश्नाह्वयम। १११।

अथानुशयीलक्षणम

गम्भीरामल्पशोथां च सवर्णामुपरि स्थिताम। पादस्यानुशयीं तांतु विद्यादन्तःप्रपाकिनीम। ११२।

अत्र पिडिकामिति विशेष्यपदमध्याहरणीयम। गम्भीरा अंतःपाकेन।

अथानुशयीचिकित्सा

हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्रधेः। ११३।

अथालसलक्षणम

क्लिन्नांगुल्यन्तरौ पादौ कंडूदाहसमन्वितौ। दुष्टकर्दम संस्पर्शा दलसं तं विभावयेत। ११४।

अलसं कन्दईं इति लोके।

अथालसचिकित्सा

पादौ सित्कारनालेन लेपनं त्वलसे हितम। पटोल कुनटीनिम्बरोचनामरिचैस्तिलैः। ११५।

विचूर्णयेदवधूलयेत।

करंजबीजं रजनी कासीसं पद्मकं मधु। रोचना हरितालंच लेपोअयमलसे हितः। ११७।

अथ पाददारीलक्षणम

परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः। पादयोः कुरुते दारीं सरुजां तलसंश्रिताम। ११८।

दारी बिवाई।

अथ पाददारीचिकित्सा

पाददार्यां शिरां प्राज्ञो मोचयेत्तलशोधिनीन। स्नेहस्वेदोपपन्नौ तु पादौ वा लेपयेन्मुहुः। मधूच्च्छिष्टवसामज्जाघृतैः क्षारविमिश्रितैः। ११९।

क्षारो यवक्षारः। वसा मज्जा च सामान्यतः छागादीनाम। विशेषानभिधानतः।

उक्तंच -

मेदोमज्जावसा ज्ञेया ग्राम्यानुपौड़ाकोडभावा



Keeping Stomach in Order

Under Stomach disorders and their cures, Bhavaprakash provides a simple solution for curing common stomach disorders.

Take a small piece of about 1 spoonful of wild sooran (Elephant foot), crush it to make a paste. Wrap the paste in Curd and swallow the whole paste bundled in a spool down your throat. The preparation is named Vajra Kalk, provided in the scripture in the way -

वज्रा कल्क:

वजरायाः कर्षमात्रायाः कलकं दद्यादिवेष्टितं। .निगिलेवारिणा नित्त्येमुदाराव्याधिशान्तये। (प ९१० ) श्लोक ५९

वज्रानडीति वनसूरणेंति लोके।

Take special care for the Elephant foot flesh not to touch skin inside your mouth or anywhere for saving your skin from getting irritation. The flesh of the Elephant foot is highly alkaline hence causes annoying irritation on the skin that may come in contact with the flesh.

For the same reason of irritation, vegetable preparations of the Elephant foot are prepared after deep frying the flesh pieces in any edible oil until the color changed to brownish from the original pink color.

Keeping Digestive Canal Clean

Digestive canal begins from mouth and goes up to anus of a person. It keeps everything eaten by the person. The food is chewed in the mouth, mixed with digestive juices and sent to belly where the food is acidified to make it digestible. From the belly, the food goes to intestines to reach anus ultimately for discharge from the body. Other names used for the digestive canal are Alimentary Canal, Gastrointestinal canal, etc.

Keeping the canal clean is essential for good health so that nothing stale remains in this canal. Cleaning the canal once in 24 hours is very important for keeping in good health. Usually, when the food passes through the intestines, some fragments of it remain stuck with walls of the intestines. These fragments get stale over time causing many physical disorders and uneasiness for the person. Hence removing every fragment from the intestines is important.

Ayurveda stresses on cleaning the canal, naturally or artificially. Since natural cleansing may not be possible everyday, some artificial means must be used.

Ayurveda recommends taking a spoonful of edible oil added with rock salt. I have tried it and it cleans the intestines but very violently. Hence I developed my own way.

Though any oil may be used, but for my suffering from Vaat disorders, I chose to use Castor Oil. Next decision is about additive to the oil for effective cleansing without any violent action inside.

I chose Pippali (Piper longam) which multiple uses in the body. It is indicated in Bhavaprakash that if Pippali is eaten dry, it causes Pitta to activate, hence may cause Pitta problems. Taking Pippli in wet condition avids Pitta problems, Hence I soaked a piece of Pippli in water overnight and took the wet Pippli along with the Castor oil. This worked fine.

Pippali apart from cleansing the intestines, provides manly and mental strength to the person as bonus of eating Pippali along with Castor Oil.

After a dose of Oil and Pippali is taken, it takes about 2 hours for the medicine to work on the food in the intestines. After this you have a stool discharge which contains all the muck sticking with the intestine walls. May be, you need to go toilet twice if the cleaning is not complete in one stroke.

I have been using this prescription for a week, and getting my digestive canal cleansed on daily basis providing good health to me.

Dryness or Dehydration

Dryness in mouth affecting tongue etc closes nerves of water flow hence the excessive thirst. This causes Constipation too forming stool nodes preventing flow of stool. The dryness goes on absorbing nutrition provided to the body, hence causes weakness and uncotrolled vibrations (Parkinson's Disease).


तृषाधिकार p ७१८

भयश्रमाभ्यां बलसंशयाद्वाप्यूर्ध्दम चित पित्तविवर्द्धनैश्च।। पित्तम सवात कुपितम नराणाम तालुप्रपन्नम जनयेत्पिपासाम।। १ ।। स्रोतःस्वपाम वाहिषु दूषितेषु दोषेश्च तृट संभवतीह जन्तोः।। तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथान्यामसमुद्भवा च ।। भक्तोद्भवा सप्तभिकेति तासां निबोध लिंगांन्ययुपूर्वशस्तु ।। २ ।।


नराणां पित्तं स्वस्थान एव संचितं पित्तं सवातम पित्तविवर्द्धनैह कटुम्लोष्णादिभिः कुपितम्पित्तं भयश्रमाभ्यां बलसंक्षयादुपवासादेश्च वातः कुपितः तदद्वयमूर्द्धम प्राप्तं ऊर्द्धवशातपिपासाम जनयेत। न केवलं ताळुनि एव दूषिते तृषा भवति किन्तु जलवाहिस्रोतःसु अपि। अत आह स्रोतःसु इत्यादि। ननु अत्र बहुवचनं न युक्तं यतो जलवहे द्वे स्रोतसी सुश्रुतेन उक्ते। उच्यते। तयोरेव अनेकप्रतानयोगान्न दोषः अपां वाहिषु स्रोतःसु इति जिव्हादेरपि उपलक्षणम। यत आह चरकः -

रसवाहिनीश्च धमनीर्जिह्वाहृदयगलतालुक्लोमसंशोषान। नृणां देहेषु कुरुतस्तृष्णामतिबलां पित्तानिलौ। 3 .

Control of Dehydration

Fear, hardwork, etc and also upper body strength reduction increases Pittam. Pittam along with wind pollutes around palate that generates thirst. Nerves of the person getting inactive these get polluted, defaults get accumulated as far as possible. Trio of defaults is known as damage-produced fourth stage that is produced by decay etc. Seven problems produced by food intake are known as symptoms as said before.

With Pitta of the person getting accumulated at its own place, this combined with wind further increases pitta, bitter acidic heat polluting pitta further. Fear, hardwork and fast decays strength of the person further polluting wind taking the duo upwards producing thirst in upper parts. Onion not only causes pollution of the palate producing thirst, but pollutes water carrying nerves too. Here plurality is used for the two water carrying nerves by Sushrut which is explained by multiplicity of fine nerves getting combned into the two nerves, simultaneously tongue of the person too become symptom. It is said by Charak so -

Juice carrying arteries absorb for drying up tongue, chest, throat, palate and place of the thirst. Body of the person experiences a strong thirst due to Pitta and Wind combination.

अथ तृषासामान्यलक्षणम

ताल्वोष्ठ कण्ठस्य विशोषदाहः संतापमोहभ्रमविप्रलापाः। सर्वाणि रूपाणि भवन्ति तस्यामुत्पत्तिकाले तू विशेषतो हि। ४।

Palate, lips, throat are specially heated produce repentence, false knowledge, confusion and sorrow. Whole face becomes so at the experience of thirst but two palate and lips get specially affected.

अथ वातजतृषालक्षणम

क्षामास्यता मारुतसंभवायाम तोदस्तथा शङ्खशिरःसु चापि। स्रोतोनिरोधो विरसंच वक्रं शीताभिरद्भिश्च विवृद्धिमेति। ५।

शङ्खशिरःसु शंखयोः शिरसि च तोदः। स्रोतोनिरोधः रसाम्बुवाहिनीधमनीनिरोधः।

Symptoms of dehydration due to wind

With tolerance wind produces pricking pain in both the temples. Blockage of arteries nerves and their dryness get curved that increases with cold. ,

अथ पित्तजतृषालक्षणम

मूर्च्छान्नाविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः .शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिधूपनंच .६.

विलापः प्रलापः .प्रततश्च शोषःअविरतः शोषः .शीताभिनन्दा शीतेच्छा .परिधूपनं कंठाद्घूमनिर्गम इव .

Symptoms of Dehydration due to Pitta

In thirst caused by Pitta, unconsciousness, enmity, grievance and heat are produced due to continued blood deficiency and dryness, pleasure in cold weather, acridity in mouth and smoking from body suffering from Pitta.

अथ कफजतृषालक्षणम

वाष्पावरोधाात कफसंवृतेअग्नौ तृष्णा बलासेन भवेन्नरस्य। निद्रा गुरुत्वं मधुरास्यता च तयार्दितः शुष्यति चातिमात्रम। ७।

अग्नौ जठराग्नौ। कफसंवृते स्वकारणकुपितेन कफेन उपरिष्ताच्छादिते। वाष्पावरोधादग्रेरूष्मावरोधादवरुद्धानलोष्मणा अम्बुवह स्रोतः शोषणाद्वलासेन कफेन नरस्य तृट भवेत्। तया तृष्णया अर्दितः पीड़ितः शुष्यति कृषो भवति।

Symptoms of Dehydration due to Cough

Due to blockade of vapors by cough-cladded digestive heat, dehydration of the person becomes strong.He feels like sleeping, heaviness in body and sweetness (in mouth), his humidity gets dried too much making him slender.

अथ क्षतजतृषालक्षणम

क्षतस्य रुक्छोङित निर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु। ८।

क्षतस्य शस्त्रादिक्षतयुक्तस्य। रुक पीड़ा।

Dehydration due to body injury

Damage of body part due to some fatal arm etc leading blood flow out of the body leads to 4th type of dehydration called kshatajaa which is accompanied by pain in the body.

अथ रसक्षयजतृषालक्षणम

रसक्षयाद्या क्षय सम्भवा सा तयाभिभूतस्तु निशादिनेषु। पेपीय ते अम्भः स सुखं न याति तां सन्निपातादिति केचिदाहुः। रस क्षयोक्तानि च लक्षणानि तस्यांशेषेण भिषग्व्यवस्येत। ९।

रसक्षयलक्षणानि सुश्रुतेन उक्तानि ‘रस क्षये हृत्पीड़ा कंपः शोषः शून्यता तृष्णा चेति। व्यवसयेज्जानीयात।

Loss of nutrients from food may be due to past mistakes. The person keeps on driknking water day and night but doesn't get satisfaction. Some practitioners call it due to combined effect of three defaults. Loss of nutrients and its symptoms are finished by Ayurved practitioners professionally.

About symptoms of loss of nutrients Sushrut said, 'Uneasiness in chest due to loss of nutrients is accompanied by vibrations (Parkinson's disease), dryness, stillness and thirst'.Professionals must know it.

अथामोत्पन्नतृषालक्षणम

त्रिदोषलिङ्गामसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री। १०।

Dehydration due to three defaults occuring simultaneously leads to pricking pain in chest and produces nodes in the stool.

भुक्तोद्भवतृषालक्षणम

स्निग्धं तथा अम्लम लवणंच भुक्तं गुरवन्नमेवाशु तृषाम करोति। ११।

लवणश्चेति चकारात्कटु च।

Eating oily, acidic, salty and bitter foods even n small quantity makes a heavy meal causing dehydration.

अथ तृषोपद्रवाः

दीनस्वरः प्रत्याम्यंदीनाननह्रदयशुष्कगलतालुः। भवति खलु सोपसर्गा तृष्णा सा शोषिणी कष्टा। १२।

शोषिणी धातुशोषिणी।

Mischiefs of Dryness

Firstly, dryness makes voice powerless, weakness, deprived facial features, dryness in chest, throat and palate. These are the byproducts with the main effect being dryness goes on absorbing body basics hence is trouble-creator.

अथोपद्रवयुक्ततृषाअरिष्टम

ज्वरमोहक्षयकासश्वासाद्योपसृष्टदेहनाम। सर्वास्त्वतिप्रसक्ता रोगकृषानां वमिप्रसक्तानां। घोरोपद्रवयुक्ता तृष्णा मरणाय विज्ञेया। १३।

आदिशब्दादतीसारादीनां ग्रहणम। अतिप्रसक्ताः नितरां घोरोपद्रवयुक्ताः अतीव मुखशोषादियुक्ताः।

Evil Effects of Dryness with Mischiefs

Fever, indecisiveness, decay, cough, breathing disorder, loose motions, are byproducts of dried up persona. Most evil effect of continued extreme dryness is facial deprivation of humidity, tendency slenderness of body, and tendency of vomitting.

अथ तृषाचिकित्सा

वातघ्नमन्नपानं मृदु लघु शीतंच वाततृष्णायाम।

तृष्णायां पवनोत्थायां सगुडं दधि शस्यते। स्वादु तिक्तं द्रवं शीतं पित्ततृष्णापहं परम। १४।

मुस्तपर्पटकोदीच्यच्छत्राख्योशीरचन्दनैः। शृतं शीतं जलं दद्याततृडदाहज्वरशान्तये।१५।

छत्रा धान्यकम , कश्चित्धात्रींच दद्यात,, चंदनमत्र धवलं तस्य अतितृष्णाहरत्वात . श्रतमर्धपक्वमत्र कर्त्तव्यम . इति षडङ्गपानम .

लाजोदकं मधुयुतं शीतं गुड़विमर्दितम . काश्मरीशर्करायुक्तं पिबेततृष्णार्दितो नरः ,१६

आस्तरणमार्द्रवासः प्रावरणं चार्द्रवासः स्यात। तेन पिपासा शाम्यति दाहाश्चोग्रोअपि देहिनां नियतम। १७।

गोस्तनी इक्षुरस क्षीर यष्टीमधु मधूतपलैः , नियतं नासिकापीतेतृष्णाशाम्यतिदारूणा , १८,

वैशद्यं जनयत्यास्ये.संदधाति मुखे जलम .तृष्णादाहप्रशमनं मधुगंडूपधारणम . १९

जिह्वा तालुगलक्लोमशोषे मूर्ध्नि निधापयेत , केशरं मातुलुङ्गस्य घृतसैंधव संयुतम , २०,

दाड़िमं बदरं लोध्रं कपित्थं बीजपूरकं . पिष्ट्वा मूर्द्धनि लेपस्तुपिपासादाहनाशनः ,२१

वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम , पाययेद्वामयेच्चाथ तेन तृष्णा प्रशाम्यति .२२

प्रातः शर्करयोपेतः क्वाथों धान्याकसम्भवः .जयेत्तृष्णां तथा दाहं भवेत् स्रोतो विशोधनम .२३.

आमलं कमलं कुष्ठं लाजाश्च वटरोहकम . एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे .

तृष्णां प्रवृद्धां हन्त्येषा मुखशोषमच दारुणम २४.

क्षतोद्भवां रुग्विनिवारणेन जयेदृसानामसृजश्च पानैः। क्षयोत्थितं क्षीरजलं निहन्यांमांसोदकं वा मधुरोदकं वा। २५।

आमोद्भवां बिल्व वचा युतानां जयेतकषायैरथ दीपनानाम। गुर्वन्नजा मुल्लिखनैर्जयेच्च क्षयं विना सर्व कृतांच तृष्णाम। २६।

उल्लिखनैः लेखनद्रव्यैः।

स्निग्धैन्ने भुक्ते या तृष्णा स्यात्तां गुडा अम्बुना शमयेत। अतिरोगदुर्बलानां तृष्णां शमयेन्नृणामिहाशु पयः। २७।

पयोअत्र दुग्धम।

मूर्च्छाछर्दितृषानाहस्त्रीमद्यभृशकर्षिता। पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये .२८ .

सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुरः .तस्यां जितायामन्योअपि व्याधिः शक्यश्चिकित्सितुंम .२९.

तृषापूर्वमपक्षीणो न लभेत जलं यदि .मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं नरः .३०..

तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति . तस्मात्सर्वास्वस्थासु न क्वचिद्वारि वारयेत . ३१.अन्नेनापि विना जन्तुः प्राणान्धारयते चिरम . तोयाभावात्पिपासार्ताः क्षणात्प्राणैर्विमुच्यते .३२ .


Cure for Dryness

For curing dryness due to wind disorder, foods which suppress wind and soft minute cold are desirable.

Wind disorder raised dryness curd added with jaagery is recommended.

Sweet, acrid lquids and cold suppress dryness due to Pitta advices use of Karkatshringee .





अथाम्लपित्तश्लेष्मपित्तधिकारः प 68

तत्राम्लपित्तविप्रकृष्टनिदानम

विरुद्धदुष्टाअम्लविदाहिपित्तप्रकोपिपानान्नभुजोविदग्धम। पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः। १।

दुष्टं व्यापान्नमन्नम। पित्तप्रकोपि इत्युक्तेअपि अम्लविदाहि इति विशेषार्थम। पित्तप्रकोपि पानं तक्रसुरादि। अन्नं माषादि स्वहेतूपचितं पुरा यत वर्षास्वम्लविपाकैः जलैः औषधीभिश्च तादृशीभिरूपचितम संचितम अम्लपित्तम। तदम्लपित्तं वदन्ति अम्लपित्ताख्यं रोगं वदन्ति।

अथाम्लपित्तरोगलक्षणम

अविपाकःक्लमोत्क्लेशस्तिक्ताम्लोद्गारगौरवैः . हृत्कंठदाहाअरुचिभिरम्लपित्तं वदेद्भिषक . अम्लपित्तं द्विधा प्रोक्तमधोगं च तथोथोर्द्धगम . २.

अथोर्द्धगाम्लपित्तलक्षणम

वान्तं हरित्पीतमनीलकृष्णमारक्तममतीवचाच्छम . मतस्योदकाभंत्वतिपिच्छिलाभं श्लेष्मानुजातं सहितं रसेन .३..

आरक्तं ईशल्लोहितम रक्ताभं वा.. अतीव चाच्छं निर्मलम . रसेन लवणकटुतिक्तरूपेण ..

अथाधोगाम्लपित्तरोगलक्षणम

तृडदाहमूर्च्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम .हृल्लासकोठानलसादहर्षस्वेदांगपीतत्वकरं कदाचित ..४..

मूर्च्छा सर्वदाज्ञानशून्यता .मोहो विपरीतं ज्ञानम् . अधो वेति वा शब्द ऊर्द्धगापेक्षया . विविधप्रकारम हरिद्रावर्णयोगात .

कदाचिद धृल्लासादिकरं च भवति ..

अथाम्लपित्तविशेषावस्था

भुक्ते विदग्धे अप्यथ वाप्यभुक्ते करोति तिक्ताम्लवमि कदाचित। . उद्गारमेवंविधमेव कंठहृत्कुक्षीदाहं शिरसो रुजं च. ५.. करचरणदाहमोष्ण्यं महतीमरुचि ज्वरं च कफपित्तम। . जनयति कण्डू मण्डलपिडिकाशतनिचितरोगचयम। . ६। .

भुक्ते विदग्धे तिक्ताम्लवमिं करोति। तथा उद्गारम एवंविधमेव तिक्ताम्लमेव करोति। अथ वा कदाचिद्भुक्तेअपि तिक्ताम्ला वान्ति करोति। तथा कण्ठहृत्कुक्षिदाहं शिरोरुजं च करोति। तथा करचरणदाहादिकं जनयति। तथा कच्छुमण्डलपिडिकाव्याप्तगात्रे रोगचयं करोति। अन्न विपाकक्लमादिकं जनयति।

अथाम्लपित्ते दोषससर्गः

सानिलं सानिलकफं सकफं तच्च लक्षयेत। दोषलिङ्गेन मतिमदभिषंगमोहकरं हि तत। ७।

ऊर्द्धाधः प्रवृत्या छर्दयतीसाराभ्यां तुल्यतया वैद्यभ्रान्तिकृत।

अथ दोषभेदेन लक्षणभेदः

कम्पप्रलापमूर्च्छाश्चिमीचिमिगात्रावसादशूलानि। तमसो दर्शनविभ्रमप्रमेहहर्षास्तथानिलेन युतेन। कफनिष्ठीवनगौरवजड़तारूचिशीतसादवमिलेपाः। दहनबलहानिकण्डूनिद्राचिह्नं कफानुगे भवति उभयमिदमेव चिह्नं मारुतकफसम्भवेअम्लपित्ते स्यात। ८।

चिमिचिमि झिनिझिनीति लोक। हर्षो रोमांच।

अथअम्लपित्तसाध्यासाध्यविचार

रोगोअयमम्लपित्ताख्यो यत्नत्संसाध्यतेनवः। चिरत्थितो भवेद्याप्यः कृच्छ्रसाध्यः स कस्यचित। ९।

कस्यचिद्धीनाहाराचारशीलस्य।

कफपित्तलक्षणम

तमो मूर्च्छा रुचिश्चर्दीरालस्यं च शिरोरुजा। प्रसेको मुखमाधुर्य श्लेष्म पित्तस्य लक्षणम।

अथाम्लपित्तचिकित्सा

अम्लपित्ते तु वमनं पाटोलारिष्टवासकैः। कार्येन्मदनैः क्षौद्रेः सैन्धवेश्च तथा भिषक। विरेचनं त्रिवृच्चूर्णं मधु धात्री फ़लद्रवैः। ऊर्द्धगं वमनैर्विद्वानधोगंरेचनैर्हरेत। १२।

अम्लपित्तमिति शेषः।

यवगोधूमविकृतीस्तीक्ष्णसंस्कारवर्जिताः। यथास्वं लाज सक्तून्वा सितामधुयुतान्पिबैत। १३। निस्तुष यव वृष धात्री क्वथितं सलिलं त्रिगंधमधुयुक्तम। द्रुततरमपहरति वमिं संजनितामम्लपित्तेन। १४। छिन्नोद्भवानिम्बपटोलपत्रं क्षौद्रान्वितं पीतमनेकरूपम। सुदारुणं हन्ति तदम्लपित्तं यथाशनिस्तालतरुं प्रवृद्धम। १५। वासामृतापर्पटकनिम्ब भूनिंब मार्कवैः। त्रिफलाकुलकैः क्वाथः सक्षौद्राश्चाम्लपित्तहा। १६। पाठापटोलयवचन्दनधान्यधात्रीवासावरांगदलनागकणाभयाभिः। लेहः सिताज्यमधुभिः शिल पाल पिण्डी हन्त्यम्लपित्तमरुचिज्वरदाहशोषान। १७। हन्त्यम्लपित्तवमनारुचि दाहमोहखालित्यमेहशिशिरव्रणशुक्रदोषान। भुक्त्वा नरःसततमामलकीरसेन वृद्धोप्यनेन हि भवेत्तरुणो रिरंसु। १८।

अथ खण्डकूष्माण्डकावलेहः

कूष्माण्डकरसो ग्राह्यः पलानां शतमात्रकम . रसतुल्यं गवां क्षीरं धात्रीचूर्णं पलाष्टकम .१९. धात्रीतुल्या सिता योज्या गव्यमाज्यं पलद्वयं .मन्दाग्निना पचेतसर्वं यावद्भवति पिण्डितम. २०. पलार्द्धं पलमेकंवा प्रत्यहं भक्षयेदिदम . खण्डकूष्माण्डकम ख्यातमम्लपित्तापहं परम .२१ .

अथ नारिकेलखण्डः

कुडवं नारिकेलस्य जले मृद्वग्निना पचेत। नारिकेलजलालाभे गव्यें पयसि तत्पचेत। २२। धान्यकं पिप्पली मुस्तं चातुर्जातं विचूर्णितम। प्रत्येकं टंकमात्रं तु शीते तस्मिन्विनिक्षिपेत। २३। पलमात्रस्तदर्द्धोअपि भक्षितः प्रत्यहं नरैः। नारिकेलक खण्डो अयं पुंस्त्वनिद्राबलप्रदः। २४। अम्लपित्तं रक्तपित्तम शूलंच परिणामजम। क्षयं क्षपयति क्षिप्रं शुष्कं दावानलों यथा। २५।

पल मात्र गव्य घृतेन नारिकेलस्य भर्जनं कर्तव्यमिति सम्प्रदायः।

अथ बृहन्नारिकेलखंडः

पृस्थन्तु नारिकेलस्य सूक्षं दृषदि पेषितम। निष्कुलीकृतकूष्माण्ड खण्डानामर्द्धमाढ़कम। २६। तद्वयं भर्जयेदगव्ये घृते तु कुडवोन्मिते। ततस्तत्र छिपेच्छुद्धं गोदुग्धंचाढ़कोन्मितम। २७। तत्रैव निक्षिपेदगव्याम सितां प्रस्थद्वयोन्मिताम। पचेत्सर्वाणि चैकत्र मृदुना वह्निना भिषक। २८। सुपक्वें शीतले तत्र चूर्णीकृत्य विनिक्षिपेत। सूक्ष्मैलां धान्यकं धात्री पर्पटं जलदं जलम। २९। उशीरं चन्दनं द्राक्षां शृङ्गाटकंच कशेरुकम। त्वक्पत्रकं स्वकर्पूरं कर्षयुग्मं पृथकपृथक। ३०। सर्वं सम्मिश्रयेदृक्षेद्भाजने मृन्मये नवे। पळमात्रमिदं प्रातर्भक्षेद्वा यथानलम। ३१। एतन्निषेवितं हन्ति रोगानेतान्न संशयः। अम्लपित्तं ज्वरं पित्तं रक्तपित्तमरोचकम। ३२। वातरक्तं तृषां दाहं पाण्डुरोगंच कामलाम। क्षयं क्षपयति क्षिप्रं शूलंच परिणामजम। ३३। नारिकेलस्य खण्डाअयमश्विभ्यां भाषितः पुरा। वर्णदो बृंहणो वृष्यः पुंस्त्वनिद्राबलप्रदः। ३४।

अथ कफपित्तचिकित्सा

अभया पिप्पली द्राक्षा सिता धान्य यवासकम। मधुना कण्ठदाहघ्नं पित्तश्लेष्महरंपरम। ३५।

पटोल यव धान्याक पिप्पल्या मलकानि च। एषां क्षौद्र युतः क्वाथः पित्तश्लेष्महरः परः। ३६।

पित्तश्लेष्मवमीकण्डूकोठविस्फोटदाहनुत। दीपनः पाचनः क्वाथः शृंगवेरपटोलयोः। ३७।

पिप्पली खण्ड पथ्या भिस्तुल्या भिर्मोदकः कृतः। पित्तश्लेष्महरो भुक्तो वह्निमांद्यं च नाशयेत। ३८।






..





अथ श्वासरोगाधिकारः

तत्र श्वासनिदानम

यैरेव कारणैर्हिक्का देहिनां सम्प्रवर्तते। तैरेव बहुभिः श्वासो व्याधिर्घोरः प्रजायते। १।

अथ श्वासभेदः

महोर्द्धच्छिन्नतमकक्षुद्रभेदैस्तु पंचधा। भिद्यते स महाव्याधिः श्वास एको विशेषतः। २।

अथ श्वास पूर्वरूपम

प्राग्रूपं तस्य हृत्पीड़ा शूलमाध्मानमेव च। आनाहोवक्त्रवैरस्यं शंखनिस्तोद एव च। ३।

अथ श्वाससम्प्राप्तिः

यदा श्रोतांसि संरुध्य मारुतः कफपूर्वकः। विश्वग्वरजति संरुद्धस्तदा श्वासं करोति सः। ४।

विष्वक व्रजति सर्वतो विमार्गान याति संरुद्धः कफ़न रुद्धमार्गः।

अथ महाश्वासलक्षणम

ऊर्द्ध्वायमानवातो यः शब्दवद्दूःखितो नरः। तच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवानीशम। ५। प्रनष्टज्ञानविज्ञानास्तथा विभ्रांतलोचनः। विवृताक्ष्याननों बद्धमूत्रवर्चा विशीर्णवाक्। ६। दीनस्य श्वसितमचास्य दूराद्विज्ञायते भृशम। महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते। ७।

ऊर्द्ध्वायमानवातः ऊर्द्ध्व नीयमानो वातो यस्य सः। शब्दवत सशब्दं स्यात। कीदृक सशब्दः तद्बोधयितुमाह। मत्तर्षभ इव उच्चैः श्वसिति इति अन्वयः। सन्नद्धः आनद्धः आनाहयुक्त इति यावत्। ज्ञानं शास्त्रम। विज्ञानं तदर्थविनिश्चयः। विशीर्णवाक स्खलितवचनः। दीनः म्लानः। मारकाश्चायं महाश्वासः।

अथोर्ध्वश्वासलक्षणम

ऊर्ध्व श्वसिति योअत्यर्थं न च प्रत्याहरत्यधः। श्लेष्मावृतमुखस्रोताः क्रुद्धगंधवहार्दितः। ८। ऊर्द्धदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः। परमुह्यंवेदनार्तश्च शुष्कास्योअरतिपीड़ितः। ९। ऊर्द्ध श्वासे प्रकुपिते ह्यधःश्वासो निरुद्धयते। मुह्यतस्ताम्यतश्चोर्द्धं श्वासस्तस्य निहन्त्यसुन . १० .

सर्वेषु श्वासेसु ऊर्द्धं श्वासोअत्र अत्यर्थमितिविशेषः . न च प्रत्याहरत्यधः न श्वासमधः करोति .श्लेष्मावृतेत्यादिश्लेष्मणा वृतं यन्मुखं स्रोतांसि च तैः क्रुद्धो यो गन्धवहस्तेन अर्दितः . विपश्यन इतस्ततो विकृतं यथा स्यादेवं पश्यन . अधःश्वासो निरुद्धयते श्वासोनाधः प्रवर्तत इत्यर्थः .मुह्यतो मोहंप्राप्नुवतस्ताम्यतो ग्लानिं प्राप्नुवतश्च ऊर्द्धश्वासः असून प्राणान्हन्ति .

अथ छिन्नश्वासलक्षणम

यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीड़ितः। न वा श्वसिति दुःखार्तो मर्मच्छेदरुजार्दितः। ११। आनाहस्वेदमूर्च्छार्तो दह्यमानेन वस्तिना। विप्लुताक्षः परिक्षीणः श्वसन-रक्तैकलोचनः। १२। विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरैः। छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून। १३।

विच्छिनं सविच्छेदम, सर्वप्राणेन सर्वबलेन। मर्मच्छेदरुजार्दितः ह्रदयशिरश्छेद वेदनयैव पीड़ितः। दह्यमानेन वस्तिना उपलक्षितः। विप्लुताक्षः अश्रुपूर्णनेत्रः। विचताः उद्विग्नचित्तः। छिन्नश्वासेन विच्छिन्नः। यस्तु श्वसिति विच्छिन्नमित्यादिलक्षणयुक्तो यः स नरः छिन्नश्वासेन विच्छिन्नः पीड़ितों बोद्धव्यः। मारकश्चायं छिन्नश्वासः।

अथ तमकश्वासलक्षणम

प्रतिलोमो यदा वायुः स्रोतांसि प्रतिपद्यते। ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च। १४। करोति पीनसं तेन कण्ठे घुर्घुरकं तथा। अतीव तीव्रवेगश्च श्वासं प्राणप्रपीडकम। १५। प्रताम्यति स वेगेन अस्यते सन्निरुध्यते। प्रमोहं कासमानश्च स गच्छति मुहुर्मुह। १६ . श्लेष्मणा मुच्यमानेन भृशं भवति दुःखितः। तस्यव च विमोक्षान्ते

मुहूर्तं लभते सुखम। १७। तथास्योद्धंसते कण्ठः कृच्छाच्छक्नोति भाषितुम। न चापि निद्रां लभते शयानः श्वासपीड़ितः। १८। पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः। आसीनो लभते सौख्य मुष्णश्चैवाभिनन्दति। १९। उछ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान। विशुष्कास्यो मुहुःश्वासी मुहूश्चेवावधम्यते। २०। मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते। स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः। २१।

संगृह्य व्यथया। समुदीर्य वर्द्धयित्वा .पीनसं नासास्रावं . तेन श्लेष्मणा घुर्घुरम घुर्घुरशब्दम। प्राणप्रपीड़कं प्राणाधिष्ठानह्रदयप्रपीडकम। प्रताम्यति तमसि प्रविशतीव। वेगेन श्वासवेगेन। सन्निरुध्यते निश्चेष्टो भवति इति चरकः। सन्निरुध्यते श्वास इति जयटः श्लेष्मणा मुच्यमानेन सुखं सुखमिव। उद्धंसते व्यथितो भवति। शयानः शयननिहितांगः । अवगृह्याति पीडयति। उष्णंचैवाभिनन्दति इत्यनेन तमको वातकफारब्ध इति बोद्धव्यः। उच्छ्रिताक्षीअशुनाक्षः। लालटेन स्विद्यता उपलक्षितः। अवधम्यते गजारूढ़स्येव सर्वं गात्रं चाल्यते। तमकस्यैव पित्तानुबन्धजनितज्वरादियोगेन।

अथ प्रतमकश्वासलक्षणम

ज्वरमूर्च्छापरीतम्च विद्यात्प्रतमकं भिषक। २२।

अथ मतान्तरम

उदावर्त रजो जीर्ण क्लिन्न काय निरोधजः। तमसावर्द्धतेअत्यर्थे शीतलैश्च प्रशाम्यति। मज्जतस्तमसीवास्य विद्यात्प्रतमकंतुतम। २३।

उदावर्तो रोग विशेषः। रजो धूलिः। अन्न अजीर्णमामादि क्लिन्नं विदग्धम। कायनिरोधः अंगयोगानां निरोधः तस्मादुत्पन्नः। अथ वा क्लिन्नकायः वृद्धनरः निरोधः वेगानान्तु सप्तदशविधः।

अथ क्षुद्रश्वासलक्षणम

ऋक्षायासोद्भवः कोष्ठे क्षुद्रवातमुदीरयन। क्षुद्रश्वासो न सोअत्यर्थं दुःखो नांगप्रबाधकः। २४। हिनस्ति न च गात्राणि न च दुःखं यथेतरे . न च भोजनपानानां निरुणद्ध युचितां गतिम् .२५. नेन्द्रियाणां व्यथांचापि काञ्चिदुत्पाद येदृुजम . स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः . २६ ..

क्षुद्रः अल्पनिदानलिंगः .उदीरयन्नूर्द्धं गच्छन। दुःखः दुःखप्रदः। इतरे चत्वारः श्वासाः तथा नायम। सर्वे महाश्वासादयोअपि अव्यक्त लक्षणाः सन्तः साध्याः।

अथ श्वाससाध्यासाध्यता

क्षुद्रःसाध्यतमस्तेषां तमकः कृच्छ्र उच्यते। त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च। २७। कामं प्राणहरा रोगा बहवो न तु ते यथा। यथा श्वासश्च हिक्का च हरतः प्राणमाशु वै। २८।

बहवो ज्वरादय।

तथा यथा श्वासहिक्के हरतो जीवमाशु ते। २९।

अथ श्वासचिकित्सा

श्वासहिक्कातुरं प्रायः स्निग्धैः स्वेदैरुपाचरेत। युक्तैर्लवणतैलाभ्यां तैरस्य ग्रथितः कफः। ३०। श्वासो विलयमायाति मारुतश्चोपशाम्यति। स्विन्नं ज्ञात्वा ततश्चैनं भोजयेच्च रसौदनम। ३१। स्वरसं शृंगवेरस्य माक्षिकेण समन्वितम। पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम। ३२।

शृंगवेरमार्द्रकम।

प्रस्थं विभीतकानामस्थि विना साधयेदजामूत्रे। अयमवलेहो लीढ़ो मधुसहितः श्वासकासघ्नः। ३३।

देवदारुबलामांसीः पिष्ट्वा वर्ति प्रकल्पयेत। तां घृताकां पिबेद्धूमम श्वासं हन्ति सुदारुणम। ३४।

दशमूलीशटीरास्नापिप्पलीविश्वपौष्करैः। श्रृंगीतामलकीभार्ङ्गीगुडूचीनागराग्निभिः। ३५। यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः। श्वासहृद्दाहपार्श्वार्तिहिक्काकासप्रशान्तये। ३६।

दशमूलस्य वा क्वाथः पौष्करेणावचूर्णिताः। श्वासकासप्रशमनः पार्श्वशूलनिवारणः। ३७।

रम्भाकुन्दशिरीषाणां कुसुमं पिप्पलीयुतं। पिष्ट्वा तण्डुलतोयेन पीत्वा श्वासमपोहति। ३८।

श्रृंगीमहौषधकणाघनपौष्कराणां चूर्णं शटी मरिचयोश्च सिताविमिश्रम। क्वाथेन पीतम मृतावृष पंचमूल्याः श्वासं त्रयहेण विनिहन्ति हि घोररूपम। ३९। पंचमूली तु सामान्या पित्ते योज्या कनीयसी। महती मारुते देया सैव दिया कफाधिके। ४०। कूष्माण्डकशिफा पीतं कोष्णेन वारिणा। शीघ्रं शमयति श्वासं कासंचापि सुदारुणम। ४१।

हरिद्रां मरिचं द्राक्षा कणा रास्नां शटीं गुडम। कटुतैलं लिहन्हन्याच्छ्वासा प्राणहरानपि।

अथ भार्ङ्गीगुडः

शतं संग्रह्य भारंगयास्तु दशमूल्यास्तथा शतम। शतं हरीतकीनामच पचत्तोये चतुर्गुणे। ४३। पादावशेषे तस्मिंस्तु रसे वस्त्र निपीडिते। आलोड्य च तुलां पूतां गुडस्य त्वभयास्ततः। ४४। पुनः पचेत्तु मृद्वाग्नौ यावल्लेहत्वमेति तत। शीते च मधुनस्तत्र षटपलानि विनिक्षिपेत। ४५। त्रिकटु त्रिसुगन्धमच पलमात्रं पृथकपृथक। यवक्षारं कर्षयुग्मं सञ्चूर्णय प्रक्षिपेत्ततः। ४६। भक्षयेदभयामेकां लेहस्यार्द्धपलं तथा। श्वासं सुदारुणं हन्ति कासं पंचविधं तथा। ४७। अर्शोस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा। स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः। नाम्ना भार्ङ्गीगुडः ख्यातो भिषग्भिः सकलैरमतैः। ४८।

अथ महाकटफलादियोगः

अष्टांगचूर्णसंयुक्त छागक्षीरंप्रयोजयेत. श्वासं कासं वितं घोर हन्यादेतन्न संशय। ४९।

अथ दशमूलरसः

दशमूलरसो देयः श्वासनिर्मूलशांतये। अवश्यं मरणीयो यो जीवेद्वर्षशतं नरः। ५०।

अथ श्वासकुठाररसः

रसो गन्धो विषमचापि टंकणंच मनःशिला। एतानि कर्षमात्राणि मरिचं चाष्टकर्षकम। ५१।


अथ स्वरभेदाधिकारः

तत्र स्वरभेदनिदानसम्प्राप्तिपूर्वकसामान्यलक्षणम

अतिउच्चभाषणविषाध्ययनाभिघातसन्दूषणैः प्रकुपिताः पवनादयस्तु। स्रोतःसु ते स्वरवाहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षडविधः सः। १।

अध्ययनमुच्चै वेदादिपाठः। अभिघातः कण्ठादिदेशे लगुडादिभिः। एतैरत्युच्चभाषणादिभिश्चतुर्भिःसंदूषणैरन्यैरपि निजैर्दुष्टहेतुभिः स्रोतःसु स्वरवहेषु चतुर्षु प्रतिष्ठां स्थितिं गताः स्वरं हन्युरिति लक्षणम। स स्वरभेदः षड्विधः। वातपित्तकफसन्निपातमेदोभवभेदैः।

अथ वातजस्वरभेदलक्षणम

वातेनकृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत्स्वरंच।

अथ पित्तजस्वरभेदलक्षणम

पित्तेन पीतनयनाननमूत्रवर्चा त्रूयाद्गलेन स च दाहसमन्वितेन। २।

कफजस्वरभेदलक्षणम

त्रूयात्कफेन सततं कफरुद्धकण्ठः स्वल्पं शनैर्वदति चापि दिवा विशेषात।

दिवा सूर्यरश्मिभिः कफस्य अल्पीभावात।

अथ सन्निपातजस्वरभेदलक्षणम

सर्वात्मिके भवति सर्वविकारसम्पत्तं चाप्यसाध्यमृषयः स्वरभेदमाहुः। ३।

अथ क्षयजस्वरभेदलक्षणम

धूमयेतवाक्क्षयकृते क्षयमाप्नुयाच्च स्यादेव चापि हतवाक्यपरिवर्जनीयः।

वाक् धूम्येत सधूमेव निःसरति। क्षयं वाप्नुयात् वागेव।

अथ मेदोजन्यस्वरभेदलक्षणम

अंतर्गलं स्वरमलक्ष्यपदं चिरेण मेदोन्वयाद्वदति दिग्धगलस्तृषार्तः। ४।

अंतरगलं गलस्य मध्य एव स्वरं वदति। दिग्धगलः मेदसा श्लेष्मणा च लिप्तगलः। तृषार्तः मेदस उष्मणा आर्तवरोधात।

अथ स्वरभेदासाध्यलक्षणम

क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थतो यश्च सहोपजातः। मेदस्विनः सर्वसमुद्भवश्च स्वरामयो नैव स सिद्धिमेति। ५।

अथ स्वरभेदचिकित्सा

वातादिजनितश्वासकासघ्ना ये प्रकीर्तिताः। योगास्तानत्र युञ्जीत यथादोषं चिकित्सकः। ६। वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकं। कफे साक्षारकटुकं। क्षौद्रं कवल इष्यते। ७। गले ताळुनि जिह्वायां दंतमूलेषु चाश्रितः। तेन निष्कृष्यते श्लेष्मा स्वारश्चासु प्रसीदति। ८। आद्ये कोष्णं जलं पेयं भुक्त्वा घृतरसौदनम। क्षीराम्बुपानं पित्तोत्थे पिबेत्सर्पिरतंद्रितः। ९। पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजं। पिबेन्मूत्रेण मतिमानकफजे स्वरसंक्षये। १०।

अथ निदिग्धिकावलेहः

निदग्धिकातुला ग्राह्या तदर्द्धं ग्रन्थिकस्य तु। तदर्द्धं चित्रकस्यापि दशमूलंच तत्समम। ११। जलद्रोणद्वये क्वाथ्यं गृह्णीयादाढ़कं ततः। पूते क्षिपेत्तदर्द्धन्तु पुराणस्य गुडस्य च। १२। सर्वमेकत्र कृत्वा तु लेहवत्साधु साधयेत .अष्टौ पलानि पिप्पलयास्त्रिजातकपलं तथा। मरिचस्य पलं चैकं सर्वमेकत्र चूर्णितम। मधुनः कुडवं दत्त्वा तदश्नीयाद्यथानलम। १४। निदिग्धिकावलेहोअयं भिषभिर्मुनिभिर्मतः। स्वरभेदहरो मुख्यः प्रतिश्याय हरस्तथा। १५। कास श्वासाग्निमांद्यादीन्गुल्ममेह गलामयान। आनाह मूत्रकृच्छ्राणि हन्यादग्रंथ्यर्बुदानि च। १६।

अथ मृगनाभ्याद्यवलेह

मृगनाभिः ससूक्ष्मीलालवंगकुसुमानि च। त्वक्क्षीरी चेति लेहोअयं मधुसर्पिःसमायुतः। वाक्स्तम्भमुग्रं जयति स्वरभ्रंशसमन्वितम . 17 .


प्रमेहाधिकार

तत्र प्रमेहनिदानम

आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरस पयांसि। नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकूच्च सर्वम। १।

अथ प्रमेहसम्प्राप्तिः

मेदश्च मांसश्च शरीरजंच क्लेदं कफो वस्तिगतं प्रदूष्य। करोति मेहान्समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि। क्षीणेषु दोषेष्ववकृष्य धातून्संदूष्य मेहान्कुरुतेअनिलश्च। २।

अथ प्रमेह संख्यासाध्यत्वादिके

साध्याः कफोत्था दश पित्तजाः षट याप्या न साध्याः पवनाच्चतुष्काः। समक्रियत्वाद्विषम क्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते। ३।

अथ प्रमेहदोषदूष्यज्ञानम्

कफश्च पित्तं पवनश्च दोषा मेदोअस्रशुक्राम्बुवसालसीकाः। मज्जारसौजः पिशितंच दूष्याः प्रमेहिणां विंशतिरेव मेहाः। ४।

अथ प्रमेहपूर्वरूपम

दन्तादीनां मलाढ़यत्वं प्राग्रूपं पाणिपादयोः । ५। दाहश्चिक्कणता देहे तृट स्वाद्वास्यंच जायते। ५।

अथ प्रमेहसामान्यलक्षणम

सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता। दोषदूष्याविशेषेअपि तत्संयोग विशेषतः। मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते। ६।

अथ कफजप्रमेहलक्षणम

अच्छं बहुतरं शीतं निर्गन्ध मुदकोपमम। मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छिलम। ७। इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः। सान्द्रीभवेत्पर्यूषितं सान्द्रमेहेन मेहति। ८। सुरामेही सुरातुल्यमुपर्यच्छमधो घनम। संदृष्टरोमा पिष्टेन पिष्टवदबहुलं सितम। ९। शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति। मूत्राणूिन्सिकतामेही सिकतारूपिणो मलान। १०। शीतमेही सुबहुशो मधुरं भृशशीतलम। शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति। लालातंतुयुतं मूत्रं लालामेहेन पिच्छिलम। ११।

अथ पित्तजप्रमेहलक्षणम

अथ पित्तजप्रमेहलक्षणम

गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत। १२। नीलमेहेन नीलाभं कालमेही मषीनिभम। हरिद्रमेही कटुकं हरिद्रासन्निभं दहत। १३। विस्रं मांजिष्ठमेहेन मंजिष्ठासलिलोपमम। विस्रमुष्णं सलवणं रक्ताभं रक्तमेहिनः। १४।

अथ वातजप्रमेहलक्षणम

वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः। मज्जाभ मज्ज़मिश्रं वा मज्जमेही मुहुर्मुहुः। १५। कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद बुधः। हस्ती मत्त इवाजस्रं मूत्रवेग विवर्जितम। सलसीकं विबद्धंच हस्तिमेही प्रमेहति। १६।

अथ कफजप्रमेहोपद्रवाः

अविपाकोअरुचिश्चर्दिरनिद्रा कासः सपीनसः। उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम। १७।

अथ पित्तजप्रमेहोपद्रवाः

वस्तिमेहनयोस्स्तोदो मुष्कावदरणं ज्वरः। दाहस्तृष्णाम्लको मूर्च्छा विडभेदः पित्तजन्मनाम। १८।

अथ वातजप्रमेहोपद्रवाः

वातजानामुदावर्तकम्पहृदग्रहलोलताः। शूलमुऱनिद्रता शोषः श्वासः कासश्च जायते। १९।

अथ प्रमेहारिष्टम

यथोक्तोपद्रवविष्टमतिप्रसृतमेव च। पीडिकापीड़ितं गाढं प्रमेहो हन्ति मानवम। २०। मूर्च्छाच्छर्दिज्वरश्वासकासवीसर्पगौरवैः। उपद्रवैरुपेतो यः प्रमेही दुष्प्रतिक्रियः। २१।

अथ स्त्रीणामप्रमेहे कारणम

रजः प्रवर्तते यस्मान्मासिमासि विशोधयत। सर्वांछरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः। २२।

अथासाध्यप्रमेहलक्षणम

जातः प्रमेही मधुमेहिनो वा न साध्यरोगः स हि बीजदोषात। ये चापि केचित्कुलजा विकारा भवन्ति तांश्चापि वदंत्यसाध्यान। २३। सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः। मधुमेहत्वमायान्ति तदाअसाध्या भवन्ति च। २४। मधुमेहो मधुनिभो जायते स किल द्विधा। क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेअथ वा। २५। आवृतो दोषलिङ्गानि सोअनिमित्तं प्रदर्शयत। क्षीणः क्षणातक्षणात्पूर्णो भजते कृच्छ्रसाध्यताम। २६।

अथ मधुमेहशब्दप्रवृत्तौ कारणम

मधुरं यच्च सर्वेषु प्रायो माध्विव मेह्ती। सर्वे अपि मधुमेहाख्या माधुर्याच्च तनोरतः। २७।

अथ प्रमेहोपेक्षाजनितदशपिडिकानां नामस्थानानि

शराविका कच्छपिका जालिनी विनतालजी। मसूरिका सर्षपिका पुत्रिणी सविदारिका। २८। विद्रधिश्चेति पिडिकाः प्रमेहापेक्षया दश। संधिमर्मसु जायन्ते मांसलेषु च धामसु। २९।

अथ दशप्रकारकपिडिकालक्षणम

अंतोन्नता च तद्रूपा निम्नमध्या शराविका। गौरसर्षपसंस्थाना तत्प्रमाणा तु सर्षपी। ३०। सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः। जालिनी तीव्रदाहा तु शिराजालसमावृता। ३१। अविगाढ़रुजा क्लेदा पृष्ठे वाप्युदरेअपि वा। महती पिडिका नीला सा बुधैर्विनता स्मृता। ३२। महत्यल्पचिता ज्ञेया पिडकापि च पुत्रिणी। मसूरदलसंस्थाना विज्ञेया तु मसूरिका। ३३। रक्ता सितास्फोटचिता विज्ञेया त्वलजी बुधैः। विदारीकंदवद्वृत्ता कठिना च विदारिका। विद्रधिर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा। ३४।

अथ प्रमेहपिडकादोषनिर्णयः

ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः। ३५।

अथ प्रमेहमन्तरा पिडिकोत्पत्तिः

विना प्रमेहमप्येता जायन्ते दुष्टमेदसः। तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः। ३६।

अथ पिडिकासाध्यत्वम

गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः। सोपद्रवा दुर्बालाग्नेः पिडिकाः परिवर्ज़येत। ३७।

अथ पिडिकोपद्रवाः

तृटच्छ्वासमांससंकोचमेहहिक्कामदज्वराः। विसर्पमर्मसंरोधाः पिडिकानामुपद्रवाः। ३८।

अथ प्रमेहपथ्यानि

श्यामाककोद्रवोद्दालगोधूमाश्चणकास्तथा। आढक्यश्च कुलत्थाश्च पुराणा मेहिनां हिताः। ३९। मेहिनां तिक्तशाकानि जांगला हरिणाण्डजाः। यवान्नविकृतिर्मुद्गाः शस्यन्ते शालिषष्टिकाः। ४०।

अथ प्रमेहे अहितवस्तूनि

सौवीरकं सुरा तक्रं तैलं क्षीरं घृतं गुडम। अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत। ४१।

अथ प्रमेहचिकित्सा

तत्र आदित एव प्रमेहिणमुपासनिग्ध मन्यतमेन प्रियंग्वादिसिद्धेन तेलेन वामयेत प्रगाढं विरचयेच्च। विरेचनादनन्तरं सुरसादिकषायेण आस्थापयेत। महौषधभद्रदारुमुस्तावापेन मधुसैन्धवयुक्तेन दह्यमानं वा न्यग्रोधादि कषायेण निस्तेलेन।

वातत्कटेषु मेहेषु स्नेहपानं विशेषतः।

पारिजातजयानिम्बवह्निगायत्रीणां पृथक। ४२।

पाठायाः सागुरोः पीता द्वयस्य शारदस्य च। जलेक्षुमद्यसिकताशनैर्लवणपिष्टकान। सान्द्रमेहानक्रमाद्धन्ति क्वाथाश्चाष्टौ समाक्षिकाः। ४३।

हरीतकीकट्फलमुस्तलोध्राः पाठाविडंगार्जुनधन्वनाश्च। उभे हरिद्रे तगरं विडंग कदम्बशालार्जुनदीप्यकांश्च। ४४।

दार्वी विदंगाः खदिरों धवश्च सुराह्वकुश्ठागुरुचंदनानि। दारव्यग्निमन्थौ त्रिफला वाचा च पाठा च मूर्वा च तथा श्वदंष्ट्रा। ४५।

वाचाहयुशीरान्याभया गुडूची वृषं शिवाचित्रकसप्तपर्णाः। पादैः कषायाः कफमेहविज्ञेर्दशोपदिष्टा मधुसम्प्रयुक्ताः। ४६।

उशीरलोध्रार्जुनचंदनानामुशीर मुस्तामलकाभयानाम। पटोलनिंबामलकामृतानाम मुस्ताभयामुष्कवृक्षकाणाम। ४७।

लोध्राम्रकालीयकधातकीनां विश्वर्जुनेलानिविषोत्पलानाम। शिरीषधान्यार्जुनकेशराणाम प्रियंगुपद्मोत्पलकिंशुकानाम ,४८।

अश्वत्थपाठासनवेतसानां कटंकटेर्युत्पलमुस्तकानाम।

पैत्तेषुमेहेषु दशोपदिष्टाः कषाययोगा मधुसम्प्रयुक्ताः। ४९।

कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम। पित्तमेहघ्ननिर्यूहसिद्धं पित्तहरं घृतम। ५०।

कम्पिल्लसप्तच्छदशालजानि वैभीतरोहीतककौटजानि। पटोलकालीयगदागुरुणि क्षौद्रेण लिह्यात्कफपित्तमेही। ५१।

दूर्वाकसेरूपूतीककुम्भीकप्लवशैवलम। जलेन क्वथितं पीतं शुक्रमेहहरं परम। ५२।

त्रिफलारग्वधद्राक्षाकषायो मधुसंयुतः। पीतो निहन्ति फेनाभं प्रमेहं नियतं नृणाम। ५३।

अश्वत्थाच्चतुरङ्गुल्या न्यग्रोधादेः फलत्रयात। सरक्तसारमंजिष्ठाः क्वाथाः पञ्च समाक्षिकाः। ५४।

मधुना त्रिफलाचूर्णमथवाश्मजतूद्भवम। लोहजं वाभयोत्थं वा लिहेन्मेहनिवृत्तये। ५५।

कटंकटेरीमधुकत्रिफलाचित्रकैः समैः। सिद्धः कषायः पातव्यः प्रमेहाणां विनाशनः। ५६।

फलत्रिकं दारुनिशां विशालां मुस्तां च निष्क्वाथ्य निशांशकल्कम। पिबेत्कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुच्छ्रतेषु। ५७।

गोभक्षितान्यवान्मूत्रभावितानकेवलानपि। चित्रितोदश्विता खादन्निम्बमुद्गरसेन वा। ५८।

भक्षयीताम्बुना मांसं प्रमेही यवपिष्टकम। मेदोघ्ना बद्धमूत्राश्च समाः सर्वेषु धातुषु। यवातस्मान्द्विशिष्यन्ते प्रमेहेषु विशेषतः। ५९।

अथ त्रिकटुकाद्यमोदकः

त्रिकटु त्रिफला पाठा मूलं शोभांजनास्य च। ६०। विडंगतण्डुला हिंगु तथा कटुकरोहिणी। बृहती कण्टकारी च हरिद्रे द्वे यवानिका। ६१। केमुकं शालपर्णी च तथातिविषचित्रको। सौवर्चलं जीरकंच हपुषा धान्यमेव च। ६२। एषां कर्षप्रमाणंच श्लक्ष्णचूर्णंच कारयेत। यवसक्तुपलानांच नवतिं द्वितयाधिकाम। ६३। घृततैलमधूनांच प्रत्येकंच पलानि षट। एभिः कर्षप्रमाणंच प्रत्यहं मोदकं सुधीः। भक्षयन्नाशयेदुग्रानप्रमेहानतिदारुणान। ६४।

अथ न्यग्रोधाद्यचूर्णं

न्यग्रोधोदुम्बराश्वत्थश्योनाकारग्वधासनम . आम्रं कपित्थं जम्बूंच प्रियालं ककुभं धवम .65 . मधुकं लोध्रं वरुणं पारिभद्रकम। पटोलं मेषशृंगी च दन्ती चित्रकमाढकी। ६६। करंजत्रिफलासक्तूर्भल्लातकफलानि च। एतानि सम्भागानि सूक्ष्मचूरणानि कारयेत। ६७। न्यग्रोधाद्यमिदं चूर्णं मधुना सह योजयेत। फलत्रयरसं चानु पीत्वा मूत्रं विशुद्ध्यति। ६८। एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानी च। प्रशमं यान्ति योगेन पिडिका न च जायते। ६९।

अथ लोहादिचूर्णगुडूचीस्वरसौ

चूर्णानि लोहत्रिफलासितानां क्षौद्रेण लिह्यांच पृथक समं वा। मेहानसमस्तानपि नाशयन्ति पीताः कदाचित्स्वरसा गुडूच्याः। ७०।

अथ त्रिकटुगुटिका

त्रिकटु त्रिफलातुल्यं गुग्गुलुच समांशिकम। गोक्षुरक्वाथसंयुक्तां गुटिकां कारयेद्बुधः। ७१। दोषकालबलापेक्षी भक्षेच्चानुलोमिकाम। न चात्र परिहारोअस्ति कर्म कुर्याद्यथेप्सितम। ७२। प्रमेहाँश्च वातरोगांच वातशोणितमेव च। मूत्राघातं मूत्रदोषं प्रदरं चाशु नाशयेत। ७३।

अथ दाडिमाद्यघृतम

दाड़िमस्य च बीजानि कृमिघ्नस्य च तण्डुलाः। रजनी चविकाअजाजी नागरं त्रिफला कणा। ७४। त्रिकण्टकस्य च फलं यवानीधान्यकं तथा। वृक्षाम्लचविकालोध्रसिन्धूद्भवसमाहितैः। ७५। कल्कैरक्षसमैरेभिर्घृतप्रस्थं विपाचयेत। भोज्ये पाने प्रदातव्यं सर्वत्तुष च मात्रया। ७६। प्रमेहान्विंशतिं चैव मूत्राघातं तथाश्मरीम। कृच्छ्रं सुदारुणंचैव हन्यादेव न संशयः। ७७। विबंधानाह शलघ्नं कामलाज्वरनाशनम। दाड़िमाद्यं घृतं चैतदश्विभ्यां परिकीर्तितम। ७८।

अथ गोक्षुरादिचूर्ण गुटिका च

श्वदंष्ट्रा सकणा मुस्ता फलगूपल्लवाः। दर्भांकुरास्तु गंडीरी रोहिषस्य च पल्लवाः । ७९। काला पुनर्नवा श्यामा शारिवा देवदारु च। पिप्पली शृंगवेरंच विडंग मरिचांई च। ८०। पाठां कम्पिल्लकं भार्ङ्गी द्वे हरिद्रे निदिग्धिका। एरंडमूलं दांतो च चित्रकं कटुरोहिणी। ८१। एतानि समभागानि सूक्ष्मचूर्णानि कारयेत। यावन्त्येतानि चूर्णानि स्युस्तावत्स्यादयोरजः। ८२। ततो विडालपदकं पिबेदुष्णेन वारिणा। अलाभी चापि मद्यानां प्रमेहान्हन्ति विंषतिम। ८३। श्वथुंच तथार्शासि पाण्डुरोगं हलीमकम। औदरान्यथ शिलानि प्लीहानं चापकर्षति। ८४। एमिगो मूत्रपिष्टैस्तु गुटिकाः कारयेद्भिषक। रोगेष्वेतेषु मुख्याः स्युर्बलमांसविवर्धनाः। ८५।

अथ सिंहामृतघृतम

कण्टकार्या गुडुच्याश्च संहरेच्च शतं शतम। संकुट्योदूखले विद्वांश्चतुर्द्राेणअम्भसः पचेत। ८६। तेन पादावशेषेण घृतप्रस्थं विपाचयेत। त्रिकटुत्रिफलारास्नाविडंगान्यथ चित्रकम। ८७। काश्मार्याणांच मूलानि पूतिकस्य तवजन च। कलिंग आईटीआई सर्वाणि सूक्ष्मपिष्टानि कारयेत। ८८। अक्षमात्रां पिबेत्प्राज्ञः शालिभिः पयसा हितैः। प्रमेहं मधुमेहंच मूत्रकृच्छ्रं भगन्दरम। ८९। आलस्यं चान्त्रवृद्धिंच कुष्ठरोगं विशेषतः। क्षयश्चैव निहन्त्येतन्नाम्ना सिंहामृत घृतम। ९०।

अथ धान्वंतरघृतम

दशमूलं करन्जौ द्वौ देवदारु हरीतकी। वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम। ९१। सुधानीपकदम्बाश्च बिल्वं भल्लातकानि च। शटी पुष्करमूलं च पिप्पलीमूलमेव च। ९२। पृथग्दशपलाभ्यागानेतांस्तोयार्मणे पचेत। यवकोलकुलत्थानां प्रस्थंप्रस्थं विपाचयेत। ९३। तेन पादावशेषेण घृतपृस्थं पचेद्भिषक। निचुलं त्रिफला भार्ङ्गी रोहिषं गजपिप्पली। ९४। शृंगवेरविडंगानि चव्यं कम्पिल्लकं त्तथा। गर्भेणानेन तत्सिद्धं पायायेत्तु यथाबलम। ९५। एतद्धान्वंतरं नाम विख्यातं सर्पिरुत्तरम। कुष्ठप्रमेहगुल्मान्श्च श्वयथुं वातशोणितम। ९६। प्लीहोदराणि चारशोंसि विद्रधिं पीडिकाश्च याः। अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति। ९७। पृथक्तोयार्मणे। ह्यत्र पचेदृव्याच्छतंशतम। शतत्रयाधिके तोये व्युत्सर्गः क्रमतो भवेत्। ९८। .

अथार्जुनाद्यघृततैले

अर्जुनपटोलनिम्बैः सवचादीप्याकरसासमंजिष्ठैः भल्लातकागुरुघनैः सगदानलचन्दनोशीरैः। ९९। गोक्षुरकसोमवल्कैर्नवपटोलैर्हरिद्रया त्रिफलाः। अश्मंतकार्जुनाभ्यां दीप्यकयुक्तेन चैव लोध्रेण। १००। मंजिष्ठातिविषाभ्यां कल्ककषायैः पचेत्तैलम। कफवातोत्थे मेहे पित्तकृते साधयेत्सर्पिः ।

अथ सारलेहः

सारवर्गकषायं चतुर्थांशावशिष्टमवतार्य। परिस्राव्य पुनरपनीय साधयेत। सिध्यति चामलकलोध्रप्रियंगुदन्तीकृष्णायसताम्रचूर्णान्यावपेत। तदेतददग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात। ततो यथायोगमुपयुञ्जीत। एष लेहः सर्वमहानपहन्ति। १०२।

अथ गोक्षुरकाद्यवलेहः

गोकण्टकं सदलमूलफलं गृहीत्वा संकुट्टितं पलशतं क्वथितं तु तोये। पादस्थितेन सलिलेन पलानि दत्त्वा पञ्चाशतं तु विपचेदथ शर्करायाः। 103 . तस्मिंघनत्वमुपगच्छति। चूर्णितानि दद्यात्पलद्वयमितानि सुभाजनानि। शुंठीकणामरिचनागदलत्वगेलाजातीयकोषककुभत्रपुसिफलानि। १०४। वांसीपलाष्टकमिह प्रणिधाय नित्ये लेह्यं तो तु शुद्धममृतं पलसंमितन्तु। हन्त्याशु मूत्रपरिदाहविबंधशुक्रकृच्छ्राश्मरीरुधिरमेहमधुप्रमेहान। १०५।

अथासनादियोगः

असनंच प्रियालंच शालं खदिरके तथा। शालवर्गं तथा ग्राह्यं भवेच्चतद्विचक्षणैः। १०६। मधुमेहत्वमापन्नं भिषग्भिः परिवर्जितम। योगेनानेन मतिमाान्प्रमेहेणमुपाचरेत। १०७।

अथ शिलाजतुस्वर्णमाक्षिकरौप्यमाक्षिकप्रयोगाः

मासि शुक्रे शुचौ वापि शैलाः सूर्यान्शुतापिताः। जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि। १०८। शिलाजत्विति विख्यातं महाव्याधिनिवारणम। त्रप्वादीनां तु लोहानां शण्णामन्यतमंच यत। १०९। ज्ञेयं स्वगन्धतश्चापि षड्योनिप्रथितं क्षितौ। लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम। ११०। तस्य लोहस्य तद्वीर्यरसं वापि विभर्ति तत। त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम। १११। यथा तथा प्रयोगेअपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः । तत्सर्वं तिक्तकटुकं कषायानुरसं सरम। ११२। कटुपाक्युष्णवीर्यंच शोषणं छेदनं तथा। तत्र यल्लषु कृष्णाभं स्निग्धं निःशर्करंच यत। ११३। गोमूत्रगन्धि नीलं वा तत्प्रधानंच वक्ष्यते। तद्भावितं सारगणैर्हृतदोषं दिनादितः। ११४। पिबत्सारोंदकेनैव श्लक्ष्णपिष्टं यथाबलम। जांगलेन रसेनाद्यात्तस्मिञ्जीरणे तु भोजनम। ११५। उपयुज्य तुलामेकाममृतस्यास्य जन्मतः। विजित्य मधुमेहाख्यमातंकं रोगकारकम। ११६। वपुर्वर्णबलोपेतः शतं जीवत्यनामयः। शतंशतं तुलायां तु सहस्रं दशतौलिकम। ११७। भल्लातकविधानेन परिहारविधिः स्मृतः। मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं परम। ११८। शोषं शोफार्शसी गुल्मं पाण्डुरोगं विषमज्वर च व्यपोहत्य चिरात्कालाच्छिलाजतु निषेवितम। ११९। न सोअस्ति रोगो यं वापि न निहान्याच्चीलाजतु। शर्करा शिरसंभूतां भिनत्ति च तथाश्मरीम। १२०। भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः। एवं च माक्षिकं धातुं तापीजममृतोपमम। १२१। मधुरं कांचनाभासमम्लं वा रजतप्रभम। व्यपोहति जराकुष्ठमेह पांडवामयक्षयान। तद्भावितान्कुलत्थांच कपोतांश्च विवर्जयेत .१२२ .

अथ प्रमेहपिंडिकाचिकित्सा

प्रमेहपिड़िकानां प्राक्कार्यं रक्तावसेचनम। पाटनंच विपक्वानां तासां पाने प्रशस्यते। १२३। क्वाथों वनस्पतेर्बस्तमूत्रं तीक्ष्णम्च शोधनम। ऐलादिकेन कल्केन तेलंच व्रणरोपणम। १२४। आरग्वधादिना क्वाथं कुर्यादुद्वर्तनानि च। शालसारादिना सेकानभोजयादींश्चणकादिना। १२५।

अथ प्रमेहिण आरोग्यपरीक्षा

प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम ..विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते .१२६ .